Valmiki Ramayana, Ayodhyakanda, Sarga 52. Lakshmana and Sita cross Ganga, Sita worships Ganga for the safe return from exile.

 

[Guha arranges a boat to help Rama, Lakshmana and Sita cross Ganga Rama asks Sumantra to return to Ayodhya and serve the king Sita worships Ganga for the safe return from exile.]

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः।
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्।।2.52.1।।

भास्करोदयकालोऽयं गता भगवती निशा।
असौ सुकृष्णो विहगः कोकिलस्तात कूजति।।2.52.2।।

बर्हिणानां च निर्घोषः श्रूयते नदतां वने।
तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्।।2.52.3।।

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः।
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः।।2.52.4।।

स तु रामस्य वचनं निशम्य प्रतिगृह्य च।
स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्।।2.52.5।।

अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम्।
सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर।।2.52.6।।

तं निशम्य समादेशं गुहामात्यगणो महान्।
उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्।।2.52.7।।

ततः स प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्।
उपस्थितेयं नौर्देव भूयः किं करवाणि ते।।2.52.8।।

तवामरसुतप्रख्य तर्तुं सागरगां नदीम्।
नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत।।2.52.9।।

अथोवाच महातेजा रामो गुहमिदं वचः।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति।।2.52.10।।

ततः कलापान् सन्नह्य खड्गौ बध्वा च धन्विनौ।
जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ।।2.52.11।।

राममेव तु धर्मज्ञमुपगम्य विनीतवत्।
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्।।2.52.12।।

ततोऽब्रवीद्दाशरथिः सुमन्त्रं
स्पृशन् करेणोत्तमदक्षिणेन।

सुमन्त्र शीघ्रं पुनरेव याहि
राज्ञः सकाशे भव चाप्रमत्तः।।2.52.13।।

निवर्तस्वेत्युवाचैव ह्येतावद्धि कृतं मम।
रथं विहाय पद्भ्यां तु गमिष्यामि महावनम्।।2.52.14।।

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः।
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्।।2.52.15।।

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्।
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने।।2.52.16।।

न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः।
मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्।।2.52.17।।

सह राघव वैदेह्या भ्रात्रा चैव वने वसन्।
त्वं गतिं प्राप्स्यसे वीर त्रीन् लोकांस्तु जयन्निव।।2.52.18।।

वयं खलु हता राम ये त्वयाप्युपवञ्चिताः।
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः।।2.52.19।।

इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा।
दृष्ट्वा दूरगतं रामं दुःखार्तो रुरुदे चिरम्।।2.52.20।।

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्।
रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्।।2.52.21।।

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये।
यथा दशरथो राजा मां न शोचेत्तथा कुरु।।2.52.22।।

शोकोपहतचेताश्च वृद्धश्च जगतीपतिः।
कामभावावसन्नश्च तस्मादेतद्ब्रवीमि ते।।2.52.23।।

यद्यदाज्ञापयेत्किञ्चित्स महात्मा महीपतिः।
कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया।।2.52.24।।

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः।
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते।।2.52.25।।

यद्यथा स महाराजो नालीकमधिगच्छति।
न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा।।2.52.26।।

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्।
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः।।2.52.27।।

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली।
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति च।।2.52.28।।

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः।
लक्ष्मणं मां च सीतां च द्रक्ष्यसे क्षिप्रमागतान्।।2.52.29।।

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे।
अन्याश्च देवीस्सहिताः कैकेयीं च पुनः पुनः।।2.52.30।।

आरोग्यं ब्रूहि कौशल्यामथ पादाभिवन्दनम्।
सीताया मम चाऽऽर्यस्य वचनाल्लक्ष्मणस्य च।।2.52.31।।

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय।
आगतश्चापि भरतः स्थाप्यो नृपमते पदे।।2.52.32।।

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च।
अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति।।2.52.33।।

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे।
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः।।2.52.34।।

यथा च तव कैकेयी सुमित्रा च विशेषतः।
तथैव देवी कौशल्या मम माता विशेषतः।।2.2.35।।

तातस्य प्रियकामेन यौवराज्यमपेक्षता।
लोकयोरुभयोः शक्यं त्वया यत्सुखमेधितुम्।।2.52.36।।

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः।
तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्।।2.52.37।।

यदहं नोपचारेण ब्रूयां स्नेहादविक्लबः।
भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि।।2.52.38।।

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्।
तव तावद्वियोगेन पुत्रशोकाकुलामिव।।2.52.39।।

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः।
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी।।2.52.40।।

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्।
सूतावशेषं स्वं सैन्यं हतवीरमिवाऽहवे।।2.52.41।।

दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्।
चिन्तयन्तोऽद्य नूनं त्वां निराहाराः कृताः प्रजाः।।2.52.42।।

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने।
प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्।।2.52.43।।

आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने।
सरथं मां निशाम्यैव कुर्युः शतगुणं ततः।।2.52.44।।

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया।
नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति।।2.52.45।।

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्।
कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः।।2.52.46।।

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः।
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः।।2.52.47।।

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ।
वनवासानुयानाय मामनुज्ञातुमर्हसि।।2.52.48।।

यदि मे याचमानस्य त्यागमेव करिष्यसि।
सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया।।2.52.49।।

भविष्यन्ति वने यानि तपोविघ्नकराणि ते।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव।।2.52.50।।

त्वत्कृते न मयाऽवाप्तं रथचर्याकृतं सुखम्।
आशंसे त्वत्कृते नाहं वनवासकृतं सुखम्।।2.52.51।।

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः।
प्रीत्याऽभिहितमिच्छामि भव मे प्रत्यनन्तरः।।2.52.52।।

इमे चापि हया वीर यदि ते वनवासिनः।
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्।।2.52.53।।

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्।
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्।।2.52.54।।

न हि शक्या प्रवेष्टुं सा मयाऽयोध्या त्वया विना।
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा।।2.52.55।।

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः।
यदनेन रथेनैव त्वां वहेयं पुरीं पुनः।।2.52.56।।

चतुर्दश हि वर्षाणि सहितस्य त्वया वने।
क्षणभूतानि यास्यन्ति शतसङ्ख्यान्यतोऽन्यथा।।2.52.57।।

भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि।
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि।।2.52.58।।

एवं बहुविधं दीनं याचमानं पुनः पुनः।
रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्।।2.52.59।।

जानामि परमां भक्तिं मयि ते भर्तृवत्सल।
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः।।2.52.60।।

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी।
कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः।।2.52.61।।

परितुष्टा हि सा देवी वनवासं गते मयि।
राजानं नातिशङ्केत 'मिथ्यावादी'ति धार्मिकम्।।2.52.62।।

एष मे प्रथमः कल्पो यदम्बा मे यवीयसी।
भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्।।2.52.63।।

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज।
सन्दिष्टश्चासि यानर्थांस्तां स्तान् ब्रूयास्तथा तथा।।2.52.64।।

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः।
गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्।।2.52.65।।

नेदानीं गुह योग्योऽयं वासो मे सजने वने।
आवश्यं ह्याश्रमे वासः कर्तव्यस्तद्गतो विधिः।।2.52.66।।

सोऽहं गृहीत्वा नियमं तपस्वि जनभूषणम्।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च।।2.52.67।।

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय।

तत् क्षीरंराजपुत्राय गुहः क्षिप्रमुपाहरत्।।2.52.68।।

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः।

दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत्।।2.52.69।।

तौ तदा चीरवसनौ जटामण्डलधारिणौ।
आशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ।।2.52.70।।

ततो वैखानसं मार्गमास्थितः सह लक्ष्मणः।
व्रतमादिष्टवान् रामः सखायं गुहमब्रवीत्।।2.52.71।।

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा।
भवेथा गुह राज्यं हि दुरारक्षतमं मतम्।।2.52.72।।

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः।
जगाम तूर्णमव्यग्रः सभार्यः सह लक्ष्मणः।।2.52.73।।

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः।
तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्।।2.52.74।।

आरोह त्वं नरव्याघ्र स्थितां नावमिमां शनैः।
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्।।2.52.75।।

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्।
आरोप्य मैथिलीं पूर्वमारुरोहाऽऽत्मवां स्ततः।।2.52.76।।

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः।
ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्।।2.52.77।।

राघवोऽपि महातेजा नावमारुह्य तां ततः।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः।।2.52.78।।

आचम्य च यथाशास्त्रं नदीं तां सह सीतया।
प्राणमत्प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः।।2.52.79।।

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्।
आस्थाय नावं रामस्तु चोदयामास नाविकान्।।2.52.80।।

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता।
शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्।।2.52.81.।।

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता।
वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्।।2.52.82।।

पुत्रो दशरथस्यायं महाराजस्य धीमतः।
निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः।।2.52.83।।

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति।।2.52.84।।

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता।
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी।।2.52.85।।

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे।
भार्या चोदधिराजस्य लोकेऽस्मिन् सम्प्रदृश्यसे।।2.52.86।।

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने।
प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते।।2.52.87।।

गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया।।2.52.88।।

सुराघटसहस्रेण मांसभूतौदनेन च।
यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता।।2.52.89।।

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च।।2.52.90।।

पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः।
अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे।।2.52.91।।

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता।
दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्।।2.52.92।।

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः।।2.52.93।।

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्।
भव संरक्षणार्थाय सजने विजनेऽपि वा।।2.52.94।।

अवश्यं रक्षणं कार्यमदृष्टे विजने वने।
अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु।।.2.52.95।।

पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्।
अन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ।।2.52.96।।

न हि तावदतिक्रान्ता सुकरा काचन क्रिया।
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति।।2.52.97।।

प्रणष्टजनसम्बाधं क्षेत्रारामविवर्जितम्।
विषमं च प्रपातं च वनमद्य प्रवेक्ष्यति।।2.52.98।।

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः।
अनन्तरं च सीताया राघवो रघुनन्दनः।।2.52.99।।

गतं तु गङ्गापरपारमाशु
रामं सुमन्त्रः प्रततं निरीक्ष्य।
अध्वप्रकर्षाद्विनिवृत्तदृष्टि
र्मुमोच बाष्पं व्यथित स्तपस्वी।।2.52.100।।

स लोकपालप्रतिमप्रभाववां
स्तीर्त्वा महात्मा वरदो महानदीम्।
ततः समृद्धान् शुभसस्यमालिनः
क्रमेण वत्सान् मुदितानुपागमत्।।2.52.101।।

तौ तत्र हत्वा चतुरो महामृगान्
वराहमृश्यं पृषतं महारुरुम्।
आदाय मेध्यं त्वरितं बुभुक्षितौ
वासाय काले ययतुर्वनस्पतिम्।।2.52.102।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्विपञ्चाश स्सर्गः।।


[Guha arranges a boat to help Rama, Lakshmana and Sita cross Ganga - Rama asks Sumantra to return to Ayodhya and serve the king - Sita worships Ganga for the safe return from exile.]

പ്രഭാതായാം തു ശര്വര്യാം പൃഥുവക്ഷാ മഹായശാഃ.
ഉവാച രാമഃ സൌമിത്രിം ലക്ഷ്മണം ശുഭലക്ഷണമ്৷৷2.52.1৷৷

As the night advanced towards dawn, broad-chested Rama of great renown said to Lakshmana, son of Sumitra, who had auspicious marks on his body:

ഭാസ്കരോദയകാലോയം ഗതാ ഭഗവതീ നിശാ.
അസൌ സുകൃഷ്ണോ വിഹഗഃ കോകിലസ്താത! കൂജതി৷৷2.52.2৷৷

O dear Lakshmana! the holy night is over and it is time for sunrise. The deep dark bird, the cuckoo is singing.

ബര്ഹിണാനാം ച നിര്ഘോഷഃ ശ്രൂയതേ നദതാം വനേ.
തരാമ ജാഹ്നവീം സൌമ്യ ശീഘ്രഗാം സാഗരങ്ഗമാമ്৷৷2.52.3৷৷

Listen to the screams of the peacocks in the forest. The Ganga is flowing fast to merge in the sea. We need to cross it.

വിജ്ഞായ രാമസ്യ വചഃ സൌമിത്രിര്മിത്രനന്ദനഃ.
ഗുഹമാമന്ത്ര്യ സൂതം ച സോതിഷ്ഠദ്ഭ്രാതുരഗ്രതഃ৷৷2.52.4৷৷

In response to Rama's desire, Lakshmana, son of Sumitra, one who brings joy to his friends, called Guha and the charioteer (Sumantra) and stood before his brother.

സ തു രാമസ്യ വചനം നിശമ്യ പ്രതിഗൃഹ്യ ച.
സ്ഥപതിസ്തൂര്ണമാഹൂയ സചിവാനിദമബ്രവീത്৷৷2.52.5৷৷

Having heard and accepted Rama's proposal, the king of the nisadas called his ministers at once and said:

അസ്യ വാഹനസംയുക്താം കര്ണഗ്രാഹവതീം ശുഭാമ്.
സുപ്രതാരാം ദൃഢാം തീര്ഥേ ശീഘ്രം നാവമുപാഹര৷৷2.52.6৷৷

Get quickly to the sacred bank (of Ganga) a strong, auspicious boat equipped with rowing rods and helmsmen who can help cross the river with ease!

തം നിശമ്യ സമാദേശം ഗുഹാമാത്യഗണോ മഹാന്.
ഉപോഹ്യ രുചിരാം നാവം ഗുഹായ പ്രത്യവേദയത്৷৷2.52.7৷৷

The ministers heard the orders, soon brought a beautiful boat and informed Guha (that his orders have been carried out).

തതഃ സ പ്രാഞ്ജലിര്ഭൂത്വാ ഗുഹോ രാഘവമബ്രവീത്.
ഉപസ്ഥിതേയം നൌര്ദേവ ഭൂയഃ കിം കരവാണി തേ৷৷2.52.8৷৷

Then Guha with folded palms said to Rama: O king, the boat ready. Tell me what else can I do for you.

തവാമരസുതപ്രഖ്യ തര്തും സാഗരഗാം നദീമ്.
നൌരിയം പുരുഷവ്യാഘ്ര! താം ത്വമാരോഹ സുവ്രത৷৷2.52.9৷৷

O best among men, renowned like a god's son and constantly engaged in vows, here is the boat for you to cross the Ganga flowing into the sea. Do board it.

അഥോവാച മഹാതേജാ രാമോ ഗുഹമിദം വചഃ.
കൃതകാമോസ്മി ഭവതാ ശീഘ്രമാരോപ്യതാമിതി৷৷2.52.10৷৷

Thereafter the radiant Rama said to Guha, You have fulfilled my desire. Keep all our belongings in the boat.

തതഃ കലാപാന് സന്നഹ്യ ഖഡ്ഗൌ ബധ്വാ ച ധന്വിനൌ.
ജഗ്മതുര്യേന തൌ ഗങ്ഗാം സീതയാ സഹ രാഘവൌ৷৷2.52.11৷৷

Rama and Lakshmana then put on their quivers, fastened their swords and holding their bows went towards Ganga along with Sita.

രാമമേവ തു ധര്മജ്ഞമുപഗമ്യ വിനീതവത്.
കിമഹം കരവാണീതി സൂതഃ പ്രാഞ്ജലിരബ്രവീത്৷৷2.52.12৷৷

The charioteer (Sumantra) approached the righteous Rama and asked him with folded hands: What can I do?

തതോബ്രവീദ്ദാശരഥിഃ സുമന്ത്രം
സ്പൃശന് കരേണോത്തമദക്ഷിണേന.

സുമന്ത്ര! ശീഘ്രം പുനരേവ യാഹി
രാജ്ഞഃ സകാശേ ഭവ ചാപ്രമത്തഃ৷৷2.52.13৷৷

Rama then caressed Sumantra with his right hand and said, Sumantra, go back immediately and never be inattentive in serving the king.

നിവര്തസ്വേത്യുവാചൈവ ഹ്യേതാവദ്ധി കൃതം മമ.
രഥം വിഹായ പദ്ഭ്യാം തു ഗമിഷ്യാമി മഹാവനമ്৷৷2.52.14৷৷

You have done enough. I shall now leave the chariot and walk into the great forest.

ആത്മാനം ത്വഭ്യനുജ്ഞാതമവേക്ഷ്യാര്തഃ സ സാരഥിഃ.
സുമന്ത്രഃ പുരുഷവ്യാഘ്രമൈക്ഷ്വാകമിദമബ്രവീത്৷৷2.52.15৷৷

Having been permitted to go, Sumantra, the distressed charioteer, said to Rama, the best among men, and a descendant of the Ikshvaku race:

നാതിക്രാന്തമിദം ലോകേ പുരുഷേണേഹ കേനചിത്.
തവ സഭ്രാതൃഭാര്യസ്യ വാസഃ പ്രാകൃതവദ്വനേ৷৷2.52.16৷৷

None else in this world would be able to live in the forest as you have resolved to, like a common man, along with your brother and spouse.

ന മന്യേ ബ്രഹ്മചര്യേസ്തി സ്വധീതേ വാ ഫലോദയഃ.
മാര്ദവാര്ജവയോര്വാപി ത്വാം ചേദ്വ്യസനമാഗതമ്৷৷2.52.17৷৷

If your celibacy and your grief are the consequences of your study of the Vedic lore, your compassionate nature and simplicity of character, I think there is no use of all these (virtues).

സഹ രാഘവ വൈദേഹ്യാ ഭ്രാത്രാ ചൈവ വനേ വസന്.
ത്വം ഗതിം പ്രാപ്സ്യസേ വീര! ത്രീന് ലോകാംസ്തു ജയന്നിവ৷৷2.52.18৷৷

Valiant scion of the Raghus! dwelling in the forest along with Vaidehi (Sita) and brother Lakshmana you will attain the status as if you have won the three worlds.

വയം ഖലു ഹതാ രാമ! യേ ത്വയാപ്യുപവഞ്ചിതാഃ.
കൈകേയ്യാ വശമേഷ്യാമഃ പാപായാ ദുഃഖഭാഗിനഃ৷৷2.52.19৷৷

Deprived of you, O Rama! we will come under the control of that sinful Kaikeyi. We will suffer and die.

ഇതി ബ്രുവന്നാത്മസമം സുമന്ത്രഃ സാരഥിസ്തദാ.
ദൃഷ്ട്വാ ദൂരഗതം രാമം ദുഃഖാര്തോ രുരുദേ ചിരമ്৷৷2.52.20৷৷

Rama was like his (Sumantra's) own self. When Sumantra, the charioteer, saw that Rama was preparing to go afar for a long time, he started weeping aloud in deep distress.

തതസ്തു വിഗതേ ബാഷ്പേ സൂതം സ്പൃഷ്ടോദകം ശുചിമ്.
രാമസ്തു മധുരം വാക്യം പുനഃ പുനരുവാച തമ്৷৷2.52.21৷৷

After the flow of tears ceased Sumantra took a sip of water and became sanctified. Then Rama addressed him with sweet words over and over again:

ഇക്ഷ്വാകൂണാം ത്വയാ തുല്യം സുഹൃദം നോപലക്ഷയേ.
യഥാ ദശരഥോ രാജാ മാം ന ശോചേത്തഥാ കുരു৷৷2.52.22৷৷

I find none else like you as friendly as you are to the Ikshvaku race. So do whatever you like to see that king Dasaratha does not brood over me.

ശോകോപഹതചേതാശ്ച വൃദ്ധശ്ച ജഗതീപതിഃ.
കാമഭാവാവസന്നശ്ച തസ്മാദേതദ്ബ്രവീമി തേ৷৷2.52.23৷৷

I tell you this because the lord of the earth (Dasaratha), is in deep distress. He is old. And he is under the control of his passion.

യദ്യദാജ്ഞാപയേത്കിഞ്ചിത്സ മഹാത്മാ മഹീപതിഃ.
കൈകേയ്യാഃ പ്രിയകാമാര്ഥം കാര്യം തദവികാങ്ക്ഷയാ৷৷2.52.24৷৷

To make Kaikeyi happy, do whatever little the great king Dasaratha orders you to do.

ഏതദര്ഥം ഹി രാജ്യാനി പ്രശാസതി നരേശ്വരാഃ.
യദേഷാം സര്വകൃത്യേഷു മനോ ന പ്രതിഹന്യതേ৷৷2.52.25৷৷

The minds of kings create no hurdles in all that they want to do. That is why they rule kingdoms.

യദ്യഥാ സ മഹാരാജോ നാലീകമധിഗച്ഛതി.
ന ച താമ്യതി ദുഃഖേന സുമന്ത്ര കുരു തത്തഥാ৷৷2.52.26৷৷

Sumantra! do things exactly in the manner the great king desires so that he does not feel sad or disappointed.

അദൃഷ്ടദുഃഖം രാജാനം വൃദ്ധമാര്യം ജിതേന്ദ്രിയമ്.
ബ്രൂയാസ്ത്വമഭിവാദ്യൈവ മമ ഹേതോരിദം വചഃ৷৷2.52.27৷৷

After offering your salutations, tell these words, on my behalf, to the king who is respectable, bent with age and who has conquered his senses and never experienced any sorrow before.

നൈവാഹമനുശോചാമി ലക്ഷ്മണോ ന ച മൈഥിലീ.
അയോധ്യായാശ്ച്യുതാശ്ചേതി വനേ വത്സ്യാമഹേതി ച৷৷2.52.28৷৷

I do not regret my banishment from Ayodhya to live in the forest. Neither Lakshmana nor Sita does.

ചതുര്ദശസു വര്ഷേഷു നിവൃത്തേഷു പുനഃ പുനഃ.
ലക്ഷ്മണം മാം ച സീതാം ച ദ്രക്ഷ്യസേ ക്ഷിപ്രമാഗതാന്৷৷2.52.29৷৷

Very quickly these fourteen years will come to an end and we will return (to Ayodhya). Then you will see me, Lakshmana and Sita off and on.

ഏവമുക്ത്വാ തു രാജാനം മാതരം ച സുമന്ത്ര! മേ.
അന്യാശ്ച ദേവീസ്സഹിതാഃ കൈകേയീം ച പുനഃ പുനഃ৷৷2.52.30৷৷

ആരോഗ്യം ബ്രൂഹി കൌശല്യാമഥ പാദാഭിവന്ദനമ്.
സീതായാ മമ ചാര്യസ്യ വചനാല്ലക്ഷ്മണസ്യ ച৷৷2.52.31৷৷

Having said this to the king, O Sumantra! tell my mother, the other queens including Kaikeyi again and again about my well-being and the well-being of Lakshmana and Sita. Convey our respectful salutations at the feet of mother Kausalya.

ബ്രൂയാശ്ച ഹി മഹാരാജം ഭരതം ക്ഷിപ്രമാനയ.
ആഗതശ്ചാപി ഭരതഃ സ്ഥാപ്യോ നൃപമതേ പദേ৷৷2.52.32৷৷

Tell the king to send for Bharata quickly, and on his arrival, he be placed in the position of the king as per his own desire.

ഭരതം ച പരിഷ്വജ്യ യൌവരാജ്യേഭിഷിച്യ ച.
അസ്മത്സന്താപജം ദുഃഖം ന ത്വാമഭിഭവിഷ്യതി৷৷2.52.33৷৷

On embracing Bharata and making him the crown-prince the sorrow due to our departure will not affect you.

ഭരതശ്ചാപി വക്തവ്യോ യഥാ രാജനി വര്തസേ.
തഥാ മാതൃഷു വര്തേഥാഃ സര്വാസ്വേവാവിശേഷതഃ৷৷2.52.34৷৷

You should tell Bharata that just as he treats the king so should he treat all the mothers without differentiating betwen them.

യഥാ ച തവ കൈകേയീ സുമിത്രാ ച വിശേഷതഃ.
തഥൈവ ദേവീ കൌശല്യാ മമ മാതാ വിശേഷതഃ৷৷2.2.35৷৷

Just as you treat Kaikeyi and Sumitra in a special manner, so should you treat Devi Kausalya, my mother.

താതസ്യ പ്രിയകാമേന യൌവരാജ്യമപേക്ഷതാ.
ലോകയോരുഭയോഃ ശക്യം ത്വയാ യത്സുഖമേധിതുമ്৷৷2.52.36৷৷

Prince-regency is awaiting you because of our father's loving desire. See that through you (your actions) he is able to attain happiness in both the worlds.

നിവര്ത്യമാനോ രാമേണ സുമന്ത്രഃ ശോകകര്ശിതഃ.
തത്സര്വം വചനം ശ്രുത്വാ സ്നേഹാത്കാകുത്സ്ഥമബ്രവീത്৷৷2.52.37৷৷

When Sumantra was asked by Rama to go back, he grew grief-stricken. Having heard all that was said by the scion of the Kakutsthas, he replied:

യദഹം നോപചാരേണ ബ്രൂയാം സ്നേഹാദവിക്ലബഃ.
ഭക്തിമാനിതി തത്താവദ്വാക്യം ത്വം ക്ഷന്തുമര്ഹസി৷৷2.52.38৷৷

I beg your pardon for what I have told you out of love. Accept it as the words of a devotee expressed without fear or formality.

കഥം ഹി ത്വദ്വിഹീനോഹം പ്രതിയാസ്യാമി താം പുരീമ്.
തവ താവദ്വിയോഗേന പുത്രശോകാകുലാമിവ৷৷2.52.39৷৷

Without you how can I go back to the city (of Ayodhya) which, separated from you, is grieving like a lady who has lost her son?

സരാമമപി താവന്മേ രഥം ദൃഷ്ട്വാ തദാ ജനഃ.
വിനാ രാമം രഥം ദൃഷ്ട്വാ വിദീര്യേതാപി സാ പുരീ৷৷2.52.40৷৷

The people who had seen Rama board the chariot will be broken-hearted to see it without him.

ദൈന്യം ഹി നഗരീ ഗച്ഛേദ്ദൃഷ്ട്വാ ശൂന്യമിമം രഥമ്.
സൂതാവശേഷം സ്വം സൈന്യം ഹതവീരമിവാഹവേ৷৷2.52.41৷৷

Seeing the empty chariot the people of the city will look pitiable just like an army left only with the charioteer after its hero is killed in the war.

ദൂരേപി നിവസന്തം ത്വാം മാനസേനാഗ്രതഃ സ്ഥിതമ്.
ചിന്തയന്തോദ്യ നൂനം ത്വാം നിരാഹാരാഃ കൃതാഃ പ്രജാഃ৷৷2.52.42৷৷

Although living at a distance, the subjects feel in their minds that you are just ahead of them. Today they will certainly go without food, brooding over you.

ദൃഷ്ടം തദ്ധി ത്വയാ രാമ! യാദൃശം ത്വത്പ്രവാസനേ.
പ്രജാനാം സങ്കുലം വൃത്തം ത്വച്ഛോകക്ലാന്തചേതസാമ്৷৷2.52.43৷৷

At the time of your departure, O Rama, you have seen all that happened, the hearts of the people exhausted with grief.

ആര്തനാദോ ഹി യഃ പൌരൈര്മുക്തസ്ത്വദ്വിപ്രവാസനേ.
സരഥം മാം നിശാമ്യൈവ കുര്യുഃ ശതഗുണം തതഃ৷৷2.52.44৷৷

You have witnessed the cry of agony raised by the citizens at the time of your banishment. Now when they see the (empty) chariot, they will make it (raise their cry) a hundredfold.

അഹം കിം ചാപി വക്ഷ്യാമി ദേവീം തവ സുതോ മയാ.
നീതോസൌ മാതുലകുലം സന്താപം മാ കൃഥാ ഇതി৷৷2.52.45৷৷

What shall I say to Kausalya? Shall I say 'O venerable queen! I have left your son at his maternal uncle's, hence don't grieve'.

അസത്യമപി നൈവാഹം ബ്രൂയാം വചനമീദൃശമ്.
കഥമപ്രിയമേവാഹം ബ്രൂയാം സത്യമിദം വചഃ৷৷2.52.46৷৷

How can I lie to her? How can I tell her the unpleasent truth?

മമ താവന്നിയോഗസ്ഥാസ്ത്വദ്ബന്ധുജനവാഹിനഃ.
കഥം രഥം ത്വയാ ഹീനം പ്രവക്ഷ്യന്തി ഹയോത്തമാഃ৷৷2.52.47৷৷

How can these excellent horses who used to carry you and your friends till now draw this chariot without you even though they are at my command?

തന്ന ശക്ഷ്യാമ്യഹം ഗന്തുമയോധ്യാം ത്വദൃതേനഘ.
വനവാസാനുയാനായ മാമനുജ്ഞാതുമര്ഹസി৷৷2.52.48৷৷

That is why, O sinless one! I cannot go back to Ayodhya without you. Allow me to accompany you into your exile.

യദി മേ യാചമാനസ്യ ത്യാഗമേവ കരിഷ്യസി.
സരഥോഗ്നിം പ്രവേക്ഷ്യാമി ത്യക്തമാത്ര ഇഹ ത്വയാ৷৷2.52.49৷৷

If you forsake me in spite of my request I shall immediately enter fire along with my chariot.

ഭവിഷ്യന്തി വനേ യാനി തപോവിഘ്നകരാണി തേ.
രഥേന പ്രതിബാധിഷ്യേ താനി സത്ത്വാനി രാഘവ!৷৷2.52.50৷৷

With my chariot I shall retaliate and prevent all those animals in the forest causing obstacles to your austerities, O Rama!

ത്വത്കൃതേ ന മയാവാപ്തം രഥചര്യാകൃതം സുഖമ്.
ആശംസേ ത്വത്കൃതേ നാഹം വനവാസകൃതം സുഖമ്৷৷2.52.51৷৷

By your grace I experienced the pleasure of driving your chariot, and by your grace, too, I am looking forward to deriving the pleasure of dwelling in the forest.

പ്രസീദേച്ഛാമി തേരണ്യേ ഭവിതും പ്രത്യനന്തരഃ.
പ്രീത്യാഭിഹിതമിച്ഛാമി ഭവ മേ പ്രത്യനന്തരഃ৷৷2.52.52৷৷

Be pleased. I wish to stay with you in the forest I long to hear from you these favourable words, 'Stay with me'.

ഇമേ ചാപി ഹയാ വീര! യദി തേ വനവാസിനഃ.
പരിചര്യാം കരിഷ്യന്തി പ്രാപ്സ്യന്തി പരമാം ഗതിമ്৷৷2.52.53৷৷

O valiant one, if these horses too could render services to you while you dwell in the forest, they would attain the supreme state.

തവ ശുശ്രൂഷണം മൂര്ധ്നാ കരിഷ്യാമി വനേ വസന്.
അയോധ്യാം ദേവലോകം വാ സര്വഥാ പ്രജഹാമ്യഹമ്৷৷2.52.54৷৷

As I dwell in the forest, I shall serve you with my head bowed. For this I may altogether relinquish Ayodhya or even heaven.

ന ഹി ശക്യാ പ്രവേഷ്ടും സാ മയായോധ്യാ ത്വയാ വിനാ.
രാജധാനീ മഹേന്ദ്രസ്യ യഥാ ദുഷ്കൃതകര്മണാ৷৷2.52.55৷৷

Just as a sinner cannot enter the capital of Indra (heaven), it is impossible for me to enter Ayodhya without you.

വനവാസേ ക്ഷയം പ്രാപ്തേ മമൈഷ ഹി മനോരഥഃ.
യദനേന രഥേനൈവ ത്വാം വഹേയം പുരീം പുനഃ৷৷2.52.56৷৷

It is my cherished desire to take you after the completion of your exile, back to the city (Ayodhya) in this chariot alone.

ചതുര്ദശ ഹി വര്ഷാണി സഹിതസ്യ ത്വയാ വനേ.
ക്ഷണഭൂതാനി യാസ്യന്തി ശതസങ്ഖ്യാന്യതോന്യഥാ৷৷2.52.57৷৷

If I accompany you into the forest, fourteen years will pass like a moment, otherwise it will seem like a hundred years.

ഭൃത്യവത്സല! തിഷ്ഠന്തം ഭര്തൃപുത്രഗതേ പഥി.
ഭക്തം ഭൃത്യം സ്ഥിതം സ്ഥിത്യാം ത്വം ന മാം ഹാതുമര്ഹസി৷৷2.52.58৷৷

O Rama! you are affectionate towards your servants. I abide in the path followed by you, my master's son. I am your devoted servant. It does not behove you to forsake me who is faithful.

ഏവം ബഹുവിധം ദീനം യാചമാനം പുനഃ പുനഃ.
രാമോ ഭൃത്യാനുകമ്പീ തു സുമന്ത്രമിദമബ്രവീത്৷৷2.52.59৷৷

Repeatedly implored in various ways by the miserable Sumantra, Rama who is compassionate to his servants replied:

ജാനാമി പരമാം ഭക്തിം മയി തേ ഭര്തൃവത്സല.
ശൃണു ചാപി യദര്ഥം ത്വാം പ്രേഷയാമി പുരീമിതഃ৷৷2.52.60৷৷

O Sumantra, listen! I know your deep devotion to me (I also know) you are loyal to your master (Dasaratha). So I am sending you to the city (Ayodhya) from here.

നഗരീം ത്വാം ഗതം ദൃഷ്ട്വാ ജനനീ മേ യവീയസീ.
കൈകേയീ പ്രത്യയം ഗച്ഛേദിതി രാമോ വനം ഗതഃ৷৷2.52.61৷৷

When my younger mother Kaikeyi sees that you have returned to Ayodhya, she will believe that Rama has really gone to the forest.

പരിതുഷ്ടാ ഹി സാ ദേവീ വനവാസം ഗതേ മയി.
രാജാനം നാതിശങ്കേത 'മിഥ്യാവാദീ'തി ധാര്മികമ്৷৷2.52.62৷৷

If queen Kaikeyi is fully satisfied that I have gone to dwell in the forest, she will no longer have any doubt and will believe that righteous king Dasaratha is not a liar.

ഏഷ മേ പ്രഥമഃ കല്പോ യദമ്ബാ മേ യവീയസീ.
ഭരതാരക്ഷിതം സ്ഫീതം പുത്രരാജ്യമവാപ്നുയാത്৷৷2.52.63৷৷

My prime resolve is that my younger mother should enjoy this prosperous and vast kingdom ruled by her son Bharata.

മമ പ്രിയാര്ഥം രാജ്ഞശ്ച സരഥസ്ത്വം പുരീം വ്രജ.
സന്ദിഷ്ടശ്ചാസി യാനര്ഥാംസ്താം സ്താന് ബ്രൂയാസ്തഥാ തഥാ৷৷2.52.64৷৷

Sumantra, return to the city with the chariot for my pleasure and also for the pleasure of the king and convey to each of the persons concerned the message exactly as instructed.

ഇത്യുക്ത്വാ വചനം സൂതം സാന്ത്വയിത്വാ പുനഃ പുനഃ.
ഗുഹം വചനമക്ലീബോ രാമോ ഹേതുമദബ്രവീത്৷৷2.52.65৷৷

Having spoken to the charioteer and consoling him again and again, indefatigable Rama spoke to Guha words full of reasoning:

നേദാനീം ഗുഹ യോഗ്യോയം വാസോ മേ സജനേ വനേ.
ആവശ്യം ഹ്യാശ്രമേ വാസഃ കര്തവ്യസ്തദ്ഗതോ വിധിഃ৷৷2.52.66৷৷

Guha! this forest where people live is not suitable for my stay. It is necessary that I live in a hermitage. So please do the needful.

സോഹം ഗൃഹീത്വാ നിയമം തപസ്വി ജനഭൂഷണമ്.
ഹിതകാമഃ പിതുര്ഭൂയഃ സീതായാ ലക്ഷ്മണസ്യ ച৷৷2.52.67৷৷

ജടാഃ കൃത്വാ ഗമിഷ്യാമി ന്യഗ്രോധക്ഷീരമാനയ.

Seeking the welfare of my father, Sita and Lakshmana I shall enter the forest with matted hair and practise the prescribed austerities which are the adornments of ascetics. Do fetch me the sap of a banyan tree.

തത് ക്ഷീരം രാജപുത്രായ ഗുഹഃ ക്ഷിപ്രമുപാഹരത്৷৷2.52.68৷৷
ലക്ഷ്മണസ്യാത്മനശ്ചൈവ രാമസ്തേനാകരോജ്ജടാഃ.

Guha fetched the latex quickly and gave it to the prince (Rama) and with that Rama matted his own hair and Lakshmana's.

ദീര്ഘബാഹുര്നരവ്യാഘ്രോ ജടിലത്വമധാരയത്৷৷2.52.69৷৷

തൌ തദാ ചീരവസനൌ ജടാമണ്ഡലധാരിണൌ.
ആശോഭേതാമൃഷിസമൌ ഭ്രാതരൌ രാമലക്ഷ്മണൌ৷৷2.52.70৷৷


The long-armed Rama, the best of men, put on locks of matted hair. As the two
brothers, Rama and Lakshmana stood dressed in bark wearing crowns of matted hair, they resembled two resplendent ascetics.

തതോ വൈഖാനസം മാര്ഗമാസ്ഥിതഃ സഹ ലക്ഷ്മണഃ.
വ്രതമാദിഷ്ടവാന് രാമഃ സഖായം ഗുഹമബ്രവീത്৷৷2.52.71৷৷

Having adopted the path of ascetics along with Lakshmana, Rama said to his friend Guha:

അപ്രമത്തോ ബലേ കോശേ ദുര്ഗേ ജനപദേ തഥാ.
ഭവേഥാ ഗുഹ രാജ്യം ഹി ദുരാരക്ഷതമം മതമ്৷৷2.52.72৷৷

O Guha! you must be vigilant about your army, treasury, forts and provinces. A kingdom, it is (rightly) said, is protected with great difficulty.

തതസ്തം സമനുജ്ഞായ ഗുഹമിക്ഷ്വാകുനന്ദനഃ.

ജഗാമ തൂര്ണമവ്യഗ്രഃ സഭാര്യഃ സഹ ലക്ഷ്മണഃ৷৷2.52.73৷৷

Rama, Delight of the Iksvakus, then permitted Guha to take leave. And departed quickly with his consort and Lakshmana in peace.

സ തു ദൃഷ്ട്വാ നദീതീരേ നാവമിക്ഷ്വാകുനന്ദനഃ.
തിതീര്ഷുഃ ശീഘ്രഗാം ഗങ്ഗാമിദം ലക്ഷ്മണമബ്രവീത്৷৷2.52.74৷৷

Seeing the boat on the river bank and intending to cross the swiftly flowing Ganga, Rama, descendant of the Iksvakus said to Lakshmana:

ആരോഹ ത്വം നരവ്യാഘ്ര സ്ഥിതാം നാവമിമാം ശനൈഃ.
സീതാം ചാരോപയാന്വക്ഷം പരിഗൃഹ്യ മനസ്വിനീമ്৷৷2.52.75৷৷

O Lakshmana, the best of men! the boat stands ready, get into it slowly (carefully), and then help the noble Sita board it by holding the beam (which balances the boat).

സ ഭ്രാതുഃ ശാസനം ശ്രുത്വാ സര്വമപ്രതികൂലയന്.
ആരോപ്യ മൈഥിലീം പൂര്വമാരുരോഹാത്മവാം സ്തതഃ৷৷2.52.76৷৷

Having heard his brother's command the self-controlled Lakshmana did as he was told.He first helped Sita get into the boat and thereafter boarded it himself.

അഥാരുരോഹ തേജസ്വീ സ്വയം ലക്ഷ്മണപൂര്വജഃ.
തതോ നിഷാദാധിപതിര്ഗുഹോ ജ്ഞാതീനചോദയത്৷৷2.52.77৷৷

With the boat boarded by the glorious Rama, Lakshmana's elder brother, Guha, king of the nishadas urged his kinsmen (to row the boat).

രാഘവോപി മഹാതേജാ നാവമാരുഹ്യ താം തതഃ.
ബ്രഹ്മവത് ക്ഷത്രവച്ചൈവ ജജാപ ഹിതമാത്മനഃ৷৷2.52.78৷৷

Resplendent Rama boarded the boat and muttered for his own safety mantras befitting brahmins and kshatriyas.

ആചമ്യ ച യഥാശാസ്ത്രം നദീം താം സഹ സീതയാ.
പ്രാണമത്പ്രീതിസംഹൃഷ്ടോ ലക്ഷ്മണശ്ചാമിതപ്രഭഃ৷৷2.52.79৷৷

Rama of undimmed radiance sipped the waters (of the Ganga) in accordance with the scriptures and with great pleasure and paid obeisance to the river with Sita and Lakshmana.

അനുജ്ഞായ സുമന്ത്രം ച സബലം ചൈവ തം ഗുഹമ്.
ആസ്ഥായ നാവം രാമസ്തു ചോദയാമാസ നാവികാന്৷৷2.52.80৷৷

Having permitted Sumantra and Guha with his army to leave, Rama seated on the boat urged the boatmen to proceed.

തതസ്തൈശ്ചോദിതാ സാ നൌഃ കര്ണധാരസമാഹിതാ.
ശുഭസ്ഫ്യവേഗാഭിഹതാ ശീഘ്രം സലിലമത്യഗാത്৷৷2.52.81৷৷.

The well-ruddered boat rowed by the helmsmen and propelled by strong oars, swiftly crossed the waters of the river.

മധ്യം തു സമനുപ്രാപ്യ ഭാഗീരഥ്യാസ്ത്വനിന്ദിതാ.
വൈദേഹീ പ്രാഞ്ജലിര്ഭൂത്വാ താം നദീമിദമബ്രവീത്৷৷2.52.82৷৷

When the boat reached the mid-stream that unblemished Sita with palms folded invoked the river thus:

പുത്രോ ദശരഥസ്യായം മഹാരാജസ്യ ധീമതഃ.
നിദേശം പാരയിത്വേമം ഗങ്ഗേ ത്വദഭിരക്ഷിതഃ৷৷2.52.83৷৷

ചതുര്ദശ ഹി വര്ഷാണി സമഗ്രാണ്യുഷ്യ കാനനേ.
ഭ്രാത്രാ സഹ മയാ ചൈവ പുനഃ പ്രത്യാഗമിഷ്യതി৷৷2.52.84৷৷

തതസ്ത്വാം ദേവി! സുഭഗേ! ക്ഷേമേണ പുനരാഗതാ.
യക്ഷ്യേ പ്രമുദിതാ ഗങ്ഗേ! സര്വകാമസമൃദ്ധിനീ৷৷2.52.85৷৷

O Ganga, protected by you, this son (Rama) of Dasaratha, the sagacious maharaja, will carry out his father's command. He along with his brother will return after living in the forest for full fourteen years. O fortunate Devi, he will worship you in delight for fulfilling all his desires after his safe return.

ത്വം ഹി ത്രിപഥഗാ ദേവി! ബ്രഹ്മലോകം സമീക്ഷസേ.
ഭാര്യാ ചോദധിരാജസ്യ ലോകേസ്മിന് സമ്പ്രദൃശ്യസേ৷৷2.52.86৷৷

O Devi, you are Tripathaga, flowing in three directions (worlds). You behold the region of Brahma and happen to be the spouse of the king of the ocean in this world (of mortals).

സാ ത്വാം ദേവി! നമസ്യാമി പ്രശംസാമി ച ശോഭനേ.
പ്രാപ്തരാജ്യേ നരവ്യാഘ്രേ ശിവേന പുനരാഗതേ৷৷2.52.87৷৷

ഗവാം ശതസഹസ്രാണി വസ്ത്രാണ്യന്നം ച പേശലമ്.
ബ്രാഹ്മണേഭ്യഃ പ്രദാസ്യാമി തവ പ്രിയചികീര്ഷയാ৷৷2.52.88৷৷

O Devi! O lovely Ganga! I offer you my obeisance and my adorations. After the safe return of Rama, the tiger (best) among men, from the forest and after he regains the kingdom I shall give a hundred thousand cows, clothing and delicious food to brahmins as a mark of regard, which will please you.

സുരാഘടസഹസ്രേണ മാംസഭൂതൌദനേന ച.
യക്ഷ്യേ ത്വാം പ്രയതാ ദേവി പുരീം പുനരുപാഗതാ৷৷2.52.89৷৷

O Devi! after my return to Ayodhya purified by my austerities, I shall worship you by offering a thousand pots of nectar and food in the form of meat.

യാനി ത്വത്തീരവാസീനി ദൈവതാനി ച സന്തി ഹി.
താനി സര്വാണി യക്ഷ്യാമി തീര്ഥാന്യായതനാനി ച৷৷2.52.90৷৷

I shall worship all those deities inhabiting your banks and all sacred spots and temples.

പുനരേവ മഹാബാഹുര്മയാ ഭ്രാത്രാ ച സങ്ഗതഃ.
അയോധ്യാം വനവാസാത്തു പ്രവിശത്വനഘോനഘേ!৷৷2.52.91৷৷

O sacred one! may the blemishless, mighty-armed Rama accompanied by me and
his brother re-enter Ayodhya after the exile.

തഥാ സമ്ഭാഷമാണാ സാ സീതാ ഗങ്ഗാമനിന്ദിതാ.
ദക്ഷിണാ ദക്ഷിണം തീരം ക്ഷിപ്രമേവാഭ്യുപാഗമത്৷৷2.52.92৷৷

While the unblemished, auspicious Sita was thus addressing (the river), the boat swiftly reached the south bank.

തീരം തു സമനുപ്രാപ്യ നാവം ഹിത്വാ നരര്ഷഭഃ.
പ്രാതിഷ്ഠത സഹ ഭ്രാത്രാ വൈദേഹ്യാ ച പരന്തപഃ৷৷2.52.93৷৷

Rama, the best of men and tormentor of enemies, after reaching the other side of the river, left the boat and proceeded with Sita and his brother.

അഥാബ്രവീന്മഹാബാഹുഃ സുമിത്രാനന്ദവര്ധനമ്.
ഭവ സംരക്ഷണാര്ഥായ സജനേ വിജനേപി വാ৷৷2.52.94৷৷

The long-armed Rama then said to Lakshmana, enhancer of the joy of Sumitra: Whether in populated areas or in solitary places, excercise alacrity in the matter of protection.

അവശ്യം രക്ഷണം കാര്യമദൃഷ്ടേ വിജനേ വനേ.
അഗ്രതോ ഗച്ഛ സൌമിത്രേ! സീതാ ത്വാമനുഗച്ഛതു৷৷.2.52.95৷৷

In this desolate forest which we had never seen before we must certainly be concerned about our protection. O Lakshmana , let Sita follow you!

പൃഷ്ഠതോഹം ഗമിഷ്യാമി ത്വാം ച സീതാം ച പാലയന്.
അന്യോന്യസ്യേഹ നോ രക്ഷാ കര്തവ്യാ പുരുഷര്ഷഭ৷৷2.52.96৷৷

O best of men, I will follow you and Sita and keep watch. We must ensure mutual protection.

ന ഹി താവദതിക്രാന്താ സുകരാ കാചന ക്രിയാ.
അദ്യ ദുഃഖം തു വൈദേഹീ വനവാസസ്യ വേത്സ്യതി৷৷2.52.97৷৷

We have not yet confronted any hardship. From now on Sita will come to know the difficulties of forest life.

പ്രണഷ്ടജനസമ്ബാധം ക്ഷേത്രാരാമവിവര്ജിതമ്.
വിഷമം ച പ്രപാതം ച വനമദ്യ പ്രവേക്ഷ്യതി৷৷2.52.98৷৷

Now she will enter the forest which is devoid of concourse of people, farms and pleasure groves and which is uneven and inaccessible and full of deep ditches.

ശ്രുത്വാ രാമസ്യ വചനം പ്രതസ്ഥേ ലക്ഷ്മണോഗ്രതഃ.
അനന്തരം ച സീതായാ രാഘവോ രഘുനന്ദനഃ৷৷2.52.99৷৷

Having heard the words of Rama, Lakshmana went ahead and Rama, delight of the Raghus, walked behind Sita.

ഗതം തു ഗങ്ഗാപരപാരമാശു
രാമം സുമന്ത്രഃ പ്രതതം നിരീക്ഷ്യ.
അധ്വപ്രകര്ഷാദ്വിനിവൃത്തദൃഷ്ടി-
ര്മുമോച ബാഷ്പം വ്യഥിത സ്തപസ്വീ৷৷2.52.100৷৷

The wretched Sumantra kept gazing at Rama who swiftly reached the other side of the Ganga and only when he could not see him because of long distance, he turned away his gaze and, overcome with grief, shed tears.

സ ലോകപാലപ്രതിമപ്രഭാവവാം
സ്തീര്ത്വാ മഹാത്മാ വരദോ മഹാനദീമ്.
തതഃ സമൃദ്ധാന് ശുഭസസ്യമാലിനഃ
ക്രമേണ വത്സാന് മുദിതാനുപാഗമത്৷৷2.52.101৷৷

Having crossed that mighty river, the high-souled Rama, bestower of boons and equal in splendour, to the Protector of the world reached Vatsa by and by, a highly prosperous country inhabited by happy people.

തൌ തത്ര ഹത്വാ ചതുരോ മഹാമൃഗാന്
വരാഹമൃശ്യം പൃഷതം മഹാരുരുമ്.
ആദായ മേധ്യം ത്വരിതം ബുഭുക്ഷിതൌ
വാസായ കാലേ യയതുര്വനസ്പതിമ്৷৷2.52.102৷৷

Famished, they (Rama and Lakshmana) killed a boar, a rishya (white-footed male antelope), a spotted deer and a great deer with black stripes. They partook the meat and reached a tree by evening where they rested for the night.

ഇത്യാര്ഷേ ശ്രീമദ്രാമായണേ വാല്മീകീയ ആദികാവ്യേ അയോധ്യാകാണ്ഡേ ദ്വിപഞ്ചാശ സ്സര്ഗഃ৷৷

Thus ends the fiftysecond sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya