Devi Mahathmyam Devi Kavacham


DEVI MAHATMYAM DEVI KAVACHAM

ōṃ namaśchaṇḍikāyai

nyāsaḥ
asya śrī chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ ।
chāmuṇḍā dēvatā । aṅganyāsōkta mātarō bījam । navāvaraṇō mantraśaktiḥ । digbandha dēvatāḥ tatvaṃ । śrī jagadambā prītyarthē saptaśatī pāṭhāṅgatvēna japē viniyōgaḥ ॥

ōṃ namaśchaṇḍikāyai

mārkaṇḍēya uvācha ।
ōṃ yadguhyaṃ paramaṃ lōkē sarvarakṣākaraṃ nṛṇām ।
yanna kasyachidākhyātaṃ tanmē brūhi pitāmaha ॥ 1 ॥

brahmōvācha ।
asti guhyatamaṃ vipra sarvabhūtōpakārakam ।
dēvyāstu kavachaṃ puṇyaṃ tachChṛṇuṣva mahāmunē ॥ 2 ॥

prathamaṃ śailaputrī cha dvitīyaṃ brahmachāriṇī ।
tṛtīyaṃ chandraghaṇṭēti kūṣmāṇḍēti chaturthakam ॥ 3 ॥

pañchamaṃ skandamātēti ṣaṣṭhaṃ kātyāyanīti cha ।
saptamaṃ kālarātrīti mahāgaurīti chāṣṭamam ॥ 4 ॥

navamaṃ siddhidātrī cha navadurgāḥ prakīrtitāḥ ।
uktānyētāni nāmāni brahmaṇaiva mahātmanā ॥ 5 ॥

agninā dahyamānastu śatrumadhyē gatō raṇē ।
viṣamē durgamē chaiva bhayārtāḥ śaraṇaṃ gatāḥ ॥ 6 ॥

na tēṣāṃ jāyatē kiñchidaśubhaṃ raṇasaṅkaṭē ।
nāpadaṃ tasya paśyāmi śōkaduḥkhabhayaṃ na hi ॥ 7 ॥

yaistu bhaktyā smṛtā nūnaṃ tēṣāṃ vṛddhiḥ prajāyatē ।
yē tvāṃ smaranti dēvēśi rakṣasē tānnasaṃśayaḥ ॥ 8 ॥

prētasaṃsthā tu chāmuṇḍā vārāhī mahiṣāsanā ।
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ॥ 9 ॥

māhēśvarī vṛṣārūḍhā kaumārī śikhivāhanā ।
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā ॥ 10 ॥

śvētarūpadharā dēvī īśvarī vṛṣavāhanā ।
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā ॥ 11 ॥

ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ ।
nānābharaṇāśōbhāḍhyā nānāratnōpaśōbhitāḥ ॥ 12 ॥

dṛśyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ ।
śaṅkhaṃ chakraṃ gadāṃ śaktiṃ halaṃ cha musalāyudham ॥ 13 ॥

khēṭakaṃ tōmaraṃ chaiva paraśuṃ pāśamēva cha ।
kuntāyudhaṃ triśūlaṃ cha śārṅgamāyudhamuttamam ॥ 14 ॥

daityānāṃ dēhanāśāya bhaktānāmabhayāya cha ।
dhārayantyāyudhānītthaṃ dēvānāṃ cha hitāya vai ॥ 15 ॥

namastēstu mahāraudrē mahāghōraparākramē ।
mahābalē mahōtsāhē mahābhayavināśini ॥ 16 ॥

trāhi māṃ dēvi duṣprēkṣyē śatrūṇāṃ bhayavardhini ।
prāchyāṃ rakṣatu māmaindrī āgnēyyāmagnidēvatā ॥ 17 ॥

dakṣiṇēvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ।
pratīchyāṃ vāruṇī rakṣēdvāyavyāṃ mṛgavāhinī ॥ 18 ॥

udīchyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ।
ūrdhvaṃ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā ॥ 19 ॥

ēvaṃ daśa diśō rakṣēchchāmuṇḍā śavavāhanā ।
jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ॥ 20 ॥

ajitā vāmapārśvē tu dakṣiṇē chāparājitā ।
śikhāmudyōtinī rakṣēdumā mūrdhni vyavasthitā ॥ 21 ॥

mālādharī lalāṭē cha bhruvau rakṣēdyaśasvinī ।
trinētrā cha bhruvōrmadhyē yamaghaṇṭā cha nāsikē ॥ 22 ॥

śaṅkhinī chakṣuṣōrmadhyē śrōtrayōrdvāravāsinī ।
kapōlau kālikā rakṣētkarṇamūlē tu śāṅkarī ॥ 23 ॥

nāsikāyāṃ sugandhā cha uttarōṣṭhē cha charchikā ।
adharē chāmṛtakalā jihvāyāṃ cha sarasvatī ॥ 24 ॥

dantān rakṣatu kaumārī kaṇṭhadēśē tu chaṇḍikā ।
ghaṇṭikāṃ chitraghaṇṭā cha mahāmāyā cha tālukē ॥ 25 ॥

kāmākṣī chibukaṃ rakṣēdvāchaṃ mē sarvamaṅgaḻā ।
grīvāyāṃ bhadrakāḻī cha pṛṣṭhavaṃśē dhanurdharī ॥ 26 ॥

nīlagrīvā bahiḥ kaṇṭhē nalikāṃ nalakūbarī ।
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī ॥ 27 ॥

hastayōrdaṇḍinī rakṣēdambikā chāṅgulīṣu cha ।
nakhāñChūlēśvarī rakṣētkukṣau rakṣētkulēśvarī ॥ 28 ॥

stanau rakṣēnmahādēvī manaḥśōkavināśinī ।
hṛdayē lalitā dēvī udarē śūladhāriṇī ॥ 29 ॥

nābhau cha kāminī rakṣēdguhyaṃ guhyēśvarī tathā ।
pūtanā kāmikā mēḍhraṃ gudē mahiṣavāhinī ॥ 30 ॥

kaṭyāṃ bhagavatī rakṣējjānunī vindhyavāsinī ।
jaṅghē mahābalā rakṣētsarvakāmapradāyinī ॥ 31 ॥

gulphayōrnārasiṃhī cha pādapṛṣṭhē tu taijasī ।
pādāṅgulīṣu śrī rakṣētpādādhastalavāsinī ॥ 32 ॥

nakhān daṃṣṭrakarālī cha kēśāṃśchaivōrdhvakēśinī ।
rōmakūpēṣu kaubērī tvachaṃ vāgīśvarī tathā ॥ 33 ॥

raktamajjāvasāmāṃsānyasthimēdāṃsi pārvatī ।
antrāṇi kālarātriścha pittaṃ cha mukuṭēśvarī ॥ 34 ॥

padmāvatī padmakōśē kaphē chūḍāmaṇistathā ।
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu ॥ 35 ॥

śukraṃ brahmāṇi! mē rakṣēchChāyāṃ Chatrēśvarī tathā ।
ahaṅkāraṃ manō buddhiṃ rakṣēnmē dharmadhāriṇī ॥ 36 ॥

prāṇāpānau tathā vyānamudānaṃ cha samānakam ।
vajrahastā cha mē rakṣētprāṇaṃ kalyāṇaśōbhanā ॥ 37 ॥

rasē rūpē cha gandhē cha śabdē sparśē cha yōginī ।
sattvaṃ rajastamaśchaiva rakṣēnnārāyaṇī sadā ॥ 38 ॥

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī ।
yaśaḥ kīrtiṃ cha lakṣmīṃ cha dhanaṃ vidyāṃ cha chakriṇī ॥ 39 ॥

gōtramindrāṇi! mē rakṣētpaśūnmē rakṣa chaṇḍikē ।
putrān rakṣēnmahālakṣmīrbhāryāṃ rakṣatu bhairavī ॥ 40 ॥

panthānaṃ supathā rakṣēnmārgaṃ kṣēmakarī tathā ।
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā ॥ 41 ॥

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavachēna tu ।
tatsarvaṃ rakṣa mē dēvi! jayantī pāpanāśinī ॥ 42 ॥

padamēkaṃ na gachChēttu yadīchChēchChubhamātmanaḥ ।
kavachēnāvṛtō nityaṃ yatra yatraiva gachChati ॥ 43 ॥

tatra tatrārthalābhaścha vijayaḥ sārvakāmikaḥ ।
yaṃ yaṃ chintayatē kāmaṃ taṃ taṃ prāpnōti niśchitam ॥ 44 ॥

paramaiśvaryamatulaṃ prāpsyatē bhūtalē pumān ।
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ ॥ 45 ॥

trailōkyē tu bhavētpūjyaḥ kavachēnāvṛtaḥ pumān ।
idaṃ tu dēvyāḥ kavachaṃ dēvānāmapi durlabham ॥ 46 ॥

yaḥ paṭhētprayatō nityaṃ trisandhyaṃ śraddhayānvitaḥ ।
daivīkalā bhavēttasya trailōkyēṣvaparājitaḥ । 47 ॥

jīvēdvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ ।
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ ॥ 48 ॥

sthāvaraṃ jaṅgamaṃ chaiva kṛtrimaṃ chaiva yadviṣam ।
abhichārāṇi sarvāṇi mantrayantrāṇi bhūtalē ॥ 49 ॥

bhūcharāḥ khēcharāśchaiva julajāśchōpadēśikāḥ ।
sahajā kulajā mālā ḍākinī śākinī tathā ॥ 50 ॥

antarikṣacharā ghōrā ḍākinyaścha mahābalāḥ ।
grahabhūtapiśāchāścha yakṣagandharvarākṣasāḥ ॥ 51 ॥

brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ ।
naśyanti darśanāttasya kavachē hṛdi saṃsthitē ॥ 52 ॥

mānōnnatirbhavēdrājñastējōvṛddhikaraṃ paraṃ ।
yaśasā vardhatē sōpi kīrtimaṇḍitabhūtalē ॥ 53 ॥

japētsaptaśatīṃ chaṇḍīṃ kṛtvā tu kavachaṃ purā ।
yāvadbhūmaṇḍalaṃ dhattē saśailavanakānanam ॥ 54 ॥

tāvattiṣṭhati mēdinyāṃ santatiḥ putrapautrikī ।
dēhāntē paramaṃ sthānaṃ yatsurairapi durlabham ॥ 55 ॥

prāpnōti puruṣō nityaṃ mahāmāyāprasādataḥ ।
labhatē paramaṃ rūpaṃ śivēna saha mōdatē ॥ 56 ॥

॥ iti vārāhapurāṇē hariharabrahma virachitaṃ dēvyāḥ kavachaṃ sampūrṇam ॥


देवी महात्म्यम् देवि कवचम्

ॐ नमश्चण्डिकायै

न्यासः
अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ।
चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वं । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥

ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥

ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥

खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ 14 ॥

दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ 17 ॥

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ 22 ॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ 23 ॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ 25 ॥

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी ।
स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ 35 ॥

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥

गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥ 42 ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ 45 ॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥

स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ।
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 49 ॥

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 51 ॥

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं ।
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ 53 ॥

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ 54 ॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥

॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥


ദേവീ മഹാത്മ്യമ് ദേവി കവചമ്

ഓം നമശ്ചംഡികായൈ

ന്യാസഃ
അസ്യ ശ്രീ ചംഡീ കവചസ്യ । ബ്രഹ്മാ ഋഷിഃ । അനുഷ്ടുപ് ഛംദഃ ।
ചാമുംഡാ ദേവതാ । അംഗന്യാസോക്ത മാതരോ ബീജമ് । നവാവരണോ മംത്രശക്തിഃ । ദിഗ്ബംധ ദേവതാഃ തത്വം । ശ്രീ ജഗദംബാ പ്രീത്യര്ഥേ സപ്തശതീ പാഠാംഗത്വേന ജപേ വിനിയോഗഃ ॥

ഓം നമശ്ചംഡികായൈ

മാര്കംഡേയ ഉവാച ।
ഓം യദ്ഗുഹ്യം പരമം ലോകേ സര്വരക്ഷാകരം നൃണാമ് ।
യന്ന കസ്യചിദാഖ്യാതം തന്മേ ബ്രൂഹി പിതാമഹ ॥ 1 ॥

ബ്രഹ്മോവാച ।
അസ്തി ഗുഹ്യതമം വിപ്ര സര്വഭൂതോപകാരകമ് ।
ദേവ്യാസ്തു കവചം പുണ്യം തച്ഛൃണുഷ്വ മഹാമുനേ ॥ 2 ॥

പ്രഥമം ശൈലപുത്രീ ച ദ്വിതീയം ബ്രഹ്മചാരിണീ ।
തൃതീയം ചംദ്രഘംടേതി കൂഷ്മാംഡേതി ചതുര്ഥകമ് ॥ 3 ॥

പംചമം സ്കംദമാതേതി ഷഷ്ഠം കാത്യായനീതി ച ।
സപ്തമം കാലരാത്രീതി മഹാഗൌരീതി ചാഷ്ടമമ് ॥ 4 ॥

നവമം സിദ്ധിദാത്രീ ച നവദുര്ഗാഃ പ്രകീര്തിതാഃ ।
ഉക്താന്യേതാനി നാമാനി ബ്രഹ്മണൈവ മഹാത്മനാ ॥ 5 ॥

അഗ്നിനാ ദഹ്യമാനസ്തു ശത്രുമധ്യേ ഗതോ രണേ ।
വിഷമേ ദുര്ഗമേ ചൈവ ഭയാര്താഃ ശരണം ഗതാഃ ॥ 6 ॥

ന തേഷാം ജായതേ കിംചിദശുഭം രണസംകടേ ।
നാപദം തസ്യ പശ്യാമി ശോകദുഃഖഭയം ന ഹി ॥ 7 ॥

യൈസ്തു ഭക്ത്യാ സ്മൃതാ നൂനം തേഷാം വൃദ്ധിഃ പ്രജായതേ ।
യേ ത്വാം സ്മരംതി ദേവേശി രക്ഷസേ താന്നസംശയഃ ॥ 8 ॥

പ്രേതസംസ്ഥാ തു ചാമുംഡാ വാരാഹീ മഹിഷാസനാ ।
ഐംദ്രീ ഗജസമാരൂഢാ വൈഷ്ണവീ ഗരുഡാസനാ ॥ 9 ॥

മാഹേശ്വരീ വൃഷാരൂഢാ കൌമാരീ ശിഖിവാഹനാ ।
ലക്ഷ്മീഃ പദ്മാസനാ ദേവീ പദ്മഹസ്താ ഹരിപ്രിയാ ॥ 10 ॥

ശ്വേതരൂപധരാ ദേവീ ഈശ്വരീ വൃഷവാഹനാ ।
ബ്രാഹ്മീ ഹംസസമാരൂഢാ സര്വാഭരണഭൂഷിതാ ॥ 11 ॥

ഇത്യേതാ മാതരഃ സര്വാഃ സര്വയോഗസമന്വിതാഃ ।
നാനാഭരണാശോഭാഢ്യാ നാനാരത്നോപശോഭിതാഃ ॥ 12 ॥

ദൃശ്യംതേ രഥമാരൂഢാ ദേവ്യഃ ക്രോധസമാകുലാഃ ।
ശംഖം ചക്രം ഗദാം ശക്തിം ഹലം ച മുസലായുധമ് ॥ 13 ॥

ഖേടകം തോമരം ചൈവ പരശും പാശമേവ ച ।
കുംതായുധം ത്രിശൂലം ച ശാരംഗമായുധമുത്തമമ് ॥ 14 ॥

ദൈത്യാനാം ദേഹനാശായ ഭക്താനാമഭയായ ച ।
ധാരയംത്യായുധാനീത്ഥം ദേവാനാം ച ഹിതായ വൈ ॥ 15 ॥

നമസ്തേഽസ്തു മഹാരൌദ്രേ മഹാഘോരപരാക്രമേ ।
മഹാബലേ മഹോത്സാഹേ മഹാഭയവിനാശിനി ॥ 16 ॥

ത്രാഹി മാം ദേവി ദുഷ്പ്രേക്ഷ്യേ ശത്രൂണാം ഭയവര്ധിനി ।
പ്രാച്യാം രക്ഷതു മാമൈംദ്രീ ആഗ്നേയ്യാമഗ്നിദേവതാ ॥ 17 ॥

ദക്ഷിണേഽവതു വാരാഹീ നൈരൃത്യാം ഖഡ്ഗധാരിണീ ।
പ്രതീച്യാം വാരുണീ രക്ഷേദ്വായവ്യാം മൃഗവാഹിനീ ॥ 18 ॥

ഉദീച്യാം പാതു കൌമാരീ ഐശാന്യാം ശൂലധാരിണീ ।
ഊര്ധ്വം ബ്രഹ്മാണീ മേ രക്ഷേദധസ്താദ്വൈഷ്ണവീ തഥാ ॥ 19 ॥

ഏവം ദശ ദിശോ രക്ഷേച്ചാമുംഡാ ശവവാഹനാ ।
ജയാ മേ ചാഗ്രതഃ പാതു വിജയാ പാതു പൃഷ്ഠതഃ ॥ 20 ॥

അജിതാ വാമപാര്ശ്വേ തു ദക്ഷിണേ ചാപരാജിതാ ।
ശിഖാമുദ്യോതിനീ രക്ഷേദുമാ മൂര്ധ്നി വ്യവസ്ഥിതാ ॥ 21 ॥

മാലാധരീ ലലാടേ ച ഭ്രുവൌ രക്ഷേദ്യശസ്വിനീ ।
ത്രിനേത്രാ ച ഭ്രുവോര്മധ്യേ യമഘംടാ ച നാസികേ ॥ 22 ॥

ശംഖിനീ ചക്ഷുഷോര്മധ്യേ ശ്രോത്രയോര്ദ്വാരവാസിനീ ।
കപോലൌ കാലികാ രക്ഷേത്കര്ണമൂലേ തു ശാംകരീ ॥ 23 ॥

നാസികായാം സുഗംധാ ച ഉത്തരോഷ്ഠേ ച ചര്ചികാ ।
അധരേ ചാമൃതകലാ ജിഹ്വായാം ച സരസ്വതീ ॥ 24 ॥

ദംതാന് രക്ഷതു കൌമാരീ കംഠദേശേ തു ചംഡികാ ।
ഘംടികാം ചിത്രഘംടാ ച മഹാമായാ ച താലുകേ ॥ 25 ॥

കാമാക്ഷീ ചിബുകം രക്ഷേദ്വാചം മേ സര്വമംഗളാ ।
ഗ്രീവായാം ഭദ്രകാളീ ച പൃഷ്ഠവംശേ ധനുര്ധരീ ॥ 26 ॥

നീലഗ്രീവാ ബഹിഃ കംഠേ നലികാം നലകൂബരീ ।
സ്കംധയോഃ ഖഡ്ഗിനീ രക്ഷേദ്ബാഹൂ മേ വജ്രധാരിണീ ॥ 27 ॥

ഹസ്തയോര്ദംഡിനീ രക്ഷേദംബികാ ചാംഗുലീഷു ച ।
നഖാംഛൂലേശ്വരീ രക്ഷേത്കുക്ഷൌ രക്ഷേത്കുലേശ്വരീ ॥ 28 ॥

സ്തനൌ രക്ഷേന്മഹാദേവീ മനഃശോകവിനാശിനീ ।
ഹൃദയേ ലലിതാ ദേവീ ഉദരേ ശൂലധാരിണീ ॥ 29 ॥

നാഭൌ ച കാമിനീ രക്ഷേദ്ഗുഹ്യം ഗുഹ്യേശ്വരീ തഥാ ।
പൂതനാ കാമികാ മേഢ്രം ഗുദേ മഹിഷവാഹിനീ ॥ 30 ॥

കട്യാം ഭഗവതീ രക്ഷേജ്ജാനുനീ വിംധ്യവാസിനീ ।
ജംഘേ മഹാബലാ രക്ഷേത്സര്വകാമപ്രദായിനീ ॥ 31 ॥

ഗുല്ഫയോര്നാരസിംഹീ ച പാദപൃഷ്ഠേ തു തൈജസീ ।
പാദാംഗുലീഷു ശ്രീ രക്ഷേത്പാദാധസ്തലവാസിനീ ॥ 32 ॥

നഖാന് ദംഷ്ട്രകരാലീ ച കേശാംശ്ചൈവോര്ധ്വകേശിനീ ।
രോമകൂപേഷു കൌബേരീ ത്വചം വാഗീശ്വരീ തഥാ ॥ 33 ॥

രക്തമജ്ജാവസാമാംസാന്യസ്ഥിമേദാംസി പാര്വതീ ।
അംത്രാണി കാലരാത്രിശ്ച പിത്തം ച മുകുടേശ്വരീ ॥ 34 ॥

പദ്മാവതീ പദ്മകോശേ കഫേ ചൂഡാമണിസ്തഥാ ।
ജ്വാലാമുഖീ നഖജ്വാലാമഭേദ്യാ സര്വസംധിഷു ॥ 35 ॥

ശുക്രം ബ്രഹ്മാണി! മേ രക്ഷേച്ഛായാം ഛത്രേശ്വരീ തഥാ ।
അഹംകാരം മനോ ബുദ്ധിം രക്ഷേന്മേ ധര്മധാരിണീ ॥ 36 ॥

പ്രാണാപാനൌ തഥാ വ്യാനമുദാനം ച സമാനകമ് ।
വജ്രഹസ്താ ച മേ രക്ഷേത്പ്രാണം കല്യാണശോഭനാ ॥ 37 ॥

രസേ രൂപേ ച ഗംധേ ച ശബ്ദേ സ്പര്ശേ ച യോഗിനീ ।
സത്ത്വം രജസ്തമശ്ചൈവ രക്ഷേന്നാരായണീ സദാ ॥ 38 ॥

ആയൂ രക്ഷതു വാരാഹീ ധര്മം രക്ഷതു വൈഷ്ണവീ ।
യശഃ കീര്തിം ച ലക്ഷ്മീം ച ധനം വിദ്യാം ച ചക്രിണീ ॥ 39 ॥

ഗോത്രമിംദ്രാണി! മേ രക്ഷേത്പശൂന്മേ രക്ഷ ചംഡികേ ।
പുത്രാന് രക്ഷേന്മഹാലക്ഷ്മീര്ഭാര്യാം രക്ഷതു ഭൈരവീ ॥ 40 ॥

പംഥാനം സുപഥാ രക്ഷേന്മാര്ഗം ക്ഷേമകരീ തഥാ ।
രാജദ്വാരേ മഹാലക്ഷ്മീര്വിജയാ സര്വതഃ സ്ഥിതാ ॥ 41 ॥

രക്ഷാഹീനം തു യത്-സ്ഥാനം വര്ജിതം കവചേന തു ।
തത്സര്വം രക്ഷ മേ ദേവി! ജയംതീ പാപനാശിനീ ॥ 42 ॥

പദമേകം ന ഗച്ഛേത്തു യദീച്ഛേച്ഛുഭമാത്മനഃ ।
കവചേനാവൃതോ നിത്യം യത്ര യത്രൈവ ഗച്ഛതി ॥ 43 ॥

തത്ര തത്രാര്ഥലാഭശ്ച വിജയഃ സാര്വകാമികഃ ।
യം യം ചിംതയതേ കാമം തം തം പ്രാപ്നോതി നിശ്ചിതമ് ॥ 44 ॥

പരമൈശ്വര്യമതുലം പ്രാപ്സ്യതേ ഭൂതലേ പുമാന് ।
നിര്ഭയോ ജായതേ മര്ത്യഃ സംഗ്രാമേഷ്വപരാജിതഃ ॥ 45 ॥

ത്രൈലോക്യേ തു ഭവേത്പൂജ്യഃ കവചേനാവൃതഃ പുമാന് ।
ഇദം തു ദേവ്യാഃ കവചം ദേവാനാമപി ദുര്ലഭമ് ॥ 46 ॥

യഃ പഠേത്പ്രയതോ നിത്യം ത്രിസംധ്യം ശ്രദ്ധയാന്വിതഃ ।
ദൈവീകലാ ഭവേത്തസ്യ ത്രൈലോക്യേഷ്വപരാജിതഃ । 47 ॥

ജീവേദ്വര്ഷശതം സാഗ്രമപമൃത്യുവിവര്ജിതഃ ।
നശ്യംതി വ്യാധയഃ സര്വേ ലൂതാവിസ്ഫോടകാദയഃ ॥ 48 ॥

സ്ഥാവരം ജംഗമം ചൈവ കൃത്രിമം ചൈവ യദ്വിഷമ് ।
അഭിചാരാണി സര്വാണി മംത്രയംത്രാണി ഭൂതലേ ॥ 49 ॥

ഭൂചരാഃ ഖേചരാശ്ചൈവ ജുലജാശ്ചോപദേശികാഃ ।
സഹജാ കുലജാ മാലാ ഡാകിനീ ശാകിനീ തഥാ ॥ 50 ॥

അംതരിക്ഷചരാ ഘോരാ ഡാകിന്യശ്ച മഹാബലാഃ ।
ഗ്രഹഭൂതപിശാചാശ്ച യക്ഷഗംധര്വരാക്ഷസാഃ ॥ 51 ॥

ബ്രഹ്മരാക്ഷസവേതാലാഃ കൂഷ്മാംഡാ ഭൈരവാദയഃ ।
നശ്യംതി ദര്ശനാത്തസ്യ കവചേ ഹൃദി സംസ്ഥിതേ ॥ 52 ॥

മാനോന്നതിര്ഭവേദ്രാജ്ഞസ്തേജോവൃദ്ധികരം പരം ।
യശസാ വര്ധതേ സോഽപി കീര്തിമംഡിതഭൂതലേ ॥ 53 ॥

ജപേത്സപ്തശതീം ചംഡീം കൃത്വാ തു കവചം പുരാ ।
യാവദ്ഭൂമംഡലം ധത്തേ സശൈലവനകാനനമ് ॥ 54 ॥

താവത്തിഷ്ഠതി മേദിന്യാം സംതതിഃ പുത്രപൌത്രികീ ।
ദേഹാംതേ പരമം സ്ഥാനം യത്സുരൈരപി ദുര്ലഭമ് ॥ 55 ॥

പ്രാപ്നോതി പുരുഷോ നിത്യം മഹാമായാപ്രസാദതഃ ।
ലഭതേ പരമം രൂപം ശിവേന സഹ മോദതേ ॥ 56 ॥

॥ ഇതി വാരാഹപുരാണേ ഹരിഹരബ്രഹ്മ വിരചിതം ദേവ്യാഃ കവചം സംപൂര്ണമ് ॥


దేవీ మహాత్మ్యం దేవి కవచం

ఓం నమశ్చండికాయై

న్యాసః
అస్య శ్రీ చండీ కవచస్య । బ్రహ్మా ఋషిః । అనుష్టుప్ ఛందః ।
చాముండా దేవతా । అంగన్యాసోక్త మాతరో బీజం । నవావరణో మంత్రశక్తిః । దిగ్బంధ దేవతాః తత్వం । శ్రీ జగదంబా ప్రీత్యర్థే సప్తశతీ పాఠాంగత్వేన జపే వినియోగః ॥

ఓం నమశ్చండికాయై

మార్కండేయ ఉవాచ ।
ఓం యద్గుహ్యం పరమం లోకే సర్వరక్షాకరం నృణాం ।
యన్న కస్యచిదాఖ్యాతం తన్మే బ్రూహి పితామహ ॥ 1 ॥

బ్రహ్మోవాచ ।
అస్తి గుహ్యతమం విప్ర సర్వభూతోపకారకం ।
దేవ్యాస్తు కవచం పుణ్యం తచ్ఛృణుష్వ మహామునే ॥ 2 ॥

ప్రథమం శైలపుత్రీ చ ద్వితీయం బ్రహ్మచారిణీ ।
తృతీయం చంద్రఘంటేతి కూష్మాండేతి చతుర్థకం ॥ 3 ॥

పంచమం స్కందమాతేతి షష్ఠం కాత్యాయనీతి చ ।
సప్తమం కాలరాత్రీతి మహాగౌరీతి చాష్టమం ॥ 4 ॥

నవమం సిద్ధిదాత్రీ చ నవదుర్గాః ప్రకీర్తితాః ।
ఉక్తాన్యేతాని నామాని బ్రహ్మణైవ మహాత్మనా ॥ 5 ॥

అగ్నినా దహ్యమానస్తు శత్రుమధ్యే గతో రణే ।
విషమే దుర్గమే చైవ భయార్తాః శరణం గతాః ॥ 6 ॥

న తేషాం జాయతే కించిదశుభం రణసంకటే ।
నాపదం తస్య పశ్యామి శోకదుఃఖభయం న హి ॥ 7 ॥

యైస్తు భక్త్యా స్మృతా నూనం తేషాం వృద్ధిః ప్రజాయతే ।
యే త్వాం స్మరంతి దేవేశి రక్షసే తాన్నసంశయః ॥ 8 ॥

ప్రేతసంస్థా తు చాముండా వారాహీ మహిషాసనా ।
ఐంద్రీ గజసమారూఢా వైష్ణవీ గరుడాసనా ॥ 9 ॥

మాహేశ్వరీ వృషారూఢా కౌమారీ శిఖివాహనా ।
లక్ష్మీః పద్మాసనా దేవీ పద్మహస్తా హరిప్రియా ॥ 10 ॥

శ్వేతరూపధరా దేవీ ఈశ్వరీ వృషవాహనా ।
బ్రాహ్మీ హంససమారూఢా సర్వాభరణభూషితా ॥ 11 ॥

ఇత్యేతా మాతరః సర్వాః సర్వయోగసమన్వితాః ।
నానాభరణాశోభాఢ్యా నానారత్నోపశోభితాః ॥ 12 ॥

దృశ్యంతే రథమారూఢా దేవ్యః క్రోధసమాకులాః ।
శంఖం చక్రం గదాం శక్తిం హలం చ ముసలాయుధం ॥ 13 ॥

ఖేటకం తోమరం చైవ పరశుం పాశమేవ చ ।
కుంతాయుధం త్రిశూలం చ శారంగమాయుధముత్తమం ॥ 14 ॥

దైత్యానాం దేహనాశాయ భక్తానామభయాయ చ ।
ధారయంత్యాయుధానీత్థం దేవానాం చ హితాయ వై ॥ 15 ॥

నమస్తేఽస్తు మహారౌద్రే మహాఘోరపరాక్రమే ।
మహాబలే మహోత్సాహే మహాభయవినాశిని ॥ 16 ॥

త్రాహి మాం దేవి దుష్ప్రేక్ష్యే శత్రూణాం భయవర్ధిని ।
ప్రాచ్యాం రక్షతు మామైంద్రీ ఆగ్నేయ్యామగ్నిదేవతా ॥ 17 ॥

దక్షిణేఽవతు వారాహీ నైరృత్యాం ఖడ్గధారిణీ ।
ప్రతీచ్యాం వారుణీ రక్షేద్వాయవ్యాం మృగవాహినీ ॥ 18 ॥

ఉదీచ్యాం పాతు కౌమారీ ఐశాన్యాం శూలధారిణీ ।
ఊర్ధ్వం బ్రహ్మాణీ మే రక్షేదధస్తాద్వైష్ణవీ తథా ॥ 19 ॥

ఏవం దశ దిశో రక్షేచ్చాముండా శవవాహనా ।
జయా మే చాగ్రతః పాతు విజయా పాతు పృష్ఠతః ॥ 20 ॥

అజితా వామపార్శ్వే తు దక్షిణే చాపరాజితా ।
శిఖాముద్యోతినీ రక్షేదుమా మూర్ధ్ని వ్యవస్థితా ॥ 21 ॥

మాలాధరీ లలాటే చ భ్రువౌ రక్షేద్యశస్వినీ ।
త్రినేత్రా చ భ్రువోర్మధ్యే యమఘంటా చ నాసికే ॥ 22 ॥

శంఖినీ చక్షుషోర్మధ్యే శ్రోత్రయోర్ద్వారవాసినీ ।
కపోలౌ కాలికా రక్షేత్కర్ణమూలే తు శాంకరీ ॥ 23 ॥

నాసికాయాం సుగంధా చ ఉత్తరోష్ఠే చ చర్చికా ।
అధరే చామృతకలా జిహ్వాయాం చ సరస్వతీ ॥ 24 ॥

దంతాన్ రక్షతు కౌమారీ కంఠదేశే తు చండికా ।
ఘంటికాం చిత్రఘంటా చ మహామాయా చ తాలుకే ॥ 25 ॥

కామాక్షీ చిబుకం రక్షేద్వాచం మే సర్వమంగళా ।
గ్రీవాయాం భద్రకాళీ చ పృష్ఠవంశే ధనుర్ధరీ ॥ 26 ॥

నీలగ్రీవా బహిః కంఠే నలికాం నలకూబరీ ।
స్కంధయోః ఖడ్గినీ రక్షేద్బాహూ మే వజ్రధారిణీ ॥ 27 ॥

హస్తయోర్దండినీ రక్షేదంబికా చాంగులీషు చ ।
నఖాంఛూలేశ్వరీ రక్షేత్కుక్షౌ రక్షేత్కులేశ్వరీ ॥ 28 ॥

స్తనౌ రక్షేన్మహాదేవీ మనఃశోకవినాశినీ ।
హృదయే లలితా దేవీ ఉదరే శూలధారిణీ ॥ 29 ॥

నాభౌ చ కామినీ రక్షేద్గుహ్యం గుహ్యేశ్వరీ తథా ।
పూతనా కామికా మేఢ్రం గుదే మహిషవాహినీ ॥ 30 ॥

కట్యాం భగవతీ రక్షేజ్జానునీ వింధ్యవాసినీ ।
జంఘే మహాబలా రక్షేత్సర్వకామప్రదాయినీ ॥ 31 ॥

గుల్ఫయోర్నారసింహీ చ పాదపృష్ఠే తు తైజసీ ।
పాదాంగులీషు శ్రీ రక్షేత్పాదాధస్తలవాసినీ ॥ 32 ॥

నఖాన్ దంష్ట్రకరాలీ చ కేశాంశ్చైవోర్ధ్వకేశినీ ।
రోమకూపేషు కౌబేరీ త్వచం వాగీశ్వరీ తథా ॥ 33 ॥

రక్తమజ్జావసామాంసాన్యస్థిమేదాంసి పార్వతీ ।
అంత్రాణి కాలరాత్రిశ్చ పిత్తం చ ముకుటేశ్వరీ ॥ 34 ॥

పద్మావతీ పద్మకోశే కఫే చూడామణిస్తథా ।
జ్వాలాముఖీ నఖజ్వాలామభేద్యా సర్వసంధిషు ॥ 35 ॥

శుక్రం బ్రహ్మాణి! మే రక్షేచ్ఛాయాం ఛత్రేశ్వరీ తథా ।
అహంకారం మనో బుద్ధిం రక్షేన్మే ధర్మధారిణీ ॥ 36 ॥

ప్రాణాపానౌ తథా వ్యానముదానం చ సమానకం ।
వజ్రహస్తా చ మే రక్షేత్ప్రాణం కల్యాణశోభనా ॥ 37 ॥

రసే రూపే చ గంధే చ శబ్దే స్పర్శే చ యోగినీ ।
సత్త్వం రజస్తమశ్చైవ రక్షేన్నారాయణీ సదా ॥ 38 ॥

ఆయూ రక్షతు వారాహీ ధర్మం రక్షతు వైష్ణవీ ।
యశః కీర్తిం చ లక్ష్మీం చ ధనం విద్యాం చ చక్రిణీ ॥ 39 ॥

గోత్రమింద్రాణి! మే రక్షేత్పశూన్మే రక్ష చండికే ।
పుత్రాన్ రక్షేన్మహాలక్ష్మీర్భార్యాం రక్షతు భైరవీ ॥ 40 ॥

పంథానం సుపథా రక్షేన్మార్గం క్షేమకరీ తథా ।
రాజద్వారే మహాలక్ష్మీర్విజయా సర్వతః స్థితా ॥ 41 ॥

రక్షాహీనం తు యత్-స్థానం వర్జితం కవచేన తు ।
తత్సర్వం రక్ష మే దేవి! జయంతీ పాపనాశినీ ॥ 42 ॥

పదమేకం న గచ్ఛేత్తు యదీచ్ఛేచ్ఛుభమాత్మనః ।
కవచేనావృతో నిత్యం యత్ర యత్రైవ గచ్ఛతి ॥ 43 ॥

తత్ర తత్రార్థలాభశ్చ విజయః సార్వకామికః ।
యం యం చింతయతే కామం తం తం ప్రాప్నోతి నిశ్చితం ॥ 44 ॥

పరమైశ్వర్యమతులం ప్రాప్స్యతే భూతలే పుమాన్ ।
నిర్భయో జాయతే మర్త్యః సంగ్రామేష్వపరాజితః ॥ 45 ॥

త్రైలోక్యే తు భవేత్పూజ్యః కవచేనావృతః పుమాన్ ।
ఇదం తు దేవ్యాః కవచం దేవానామపి దుర్లభం ॥ 46 ॥

యః పఠేత్ప్రయతో నిత్యం త్రిసంధ్యం శ్రద్ధయాన్వితః ।
దైవీకలా భవేత్తస్య త్రైలోక్యేష్వపరాజితః । 47 ॥

జీవేద్వర్షశతం సాగ్రమపమృత్యువివర్జితః ।
నశ్యంతి వ్యాధయః సర్వే లూతావిస్ఫోటకాదయః ॥ 48 ॥

స్థావరం జంగమం చైవ కృత్రిమం చైవ యద్విషం ।
అభిచారాణి సర్వాణి మంత్రయంత్రాణి భూతలే ॥ 49 ॥

భూచరాః ఖేచరాశ్చైవ జులజాశ్చోపదేశికాః ।
సహజా కులజా మాలా డాకినీ శాకినీ తథా ॥ 50 ॥

అంతరిక్షచరా ఘోరా డాకిన్యశ్చ మహాబలాః ।
గ్రహభూతపిశాచాశ్చ యక్షగంధర్వరాక్షసాః ॥ 51 ॥

బ్రహ్మరాక్షసవేతాలాః కూష్మాండా భైరవాదయః ।
నశ్యంతి దర్శనాత్తస్య కవచే హృది సంస్థితే ॥ 52 ॥

మానోన్నతిర్భవేద్రాజ్ఞస్తేజోవృద్ధికరం పరం ।
యశసా వర్ధతే సోఽపి కీర్తిమండితభూతలే ॥ 53 ॥

జపేత్సప్తశతీం చండీం కృత్వా తు కవచం పురా ।
యావద్భూమండలం ధత్తే సశైలవనకాననం ॥ 54 ॥

తావత్తిష్ఠతి మేదిన్యాం సంతతిః పుత్రపౌత్రికీ ।
దేహాంతే పరమం స్థానం యత్సురైరపి దుర్లభం ॥ 55 ॥

ప్రాప్నోతి పురుషో నిత్యం మహామాయాప్రసాదతః ।
లభతే పరమం రూపం శివేన సహ మోదతే ॥ 56 ॥

॥ ఇతి వారాహపురాణే హరిహరబ్రహ్మ విరచితం దేవ్యాః కవచం సంపూర్ణం ॥


தே3வீ மஹாத்ம்யம் தே3வி கவசம்

ஓம் நமஶ்சண்டி3காயை

ந்யாஸ:
அஸ்ய ஶ்ரீ சண்டீ3 கவசஸ்ய । ப்3ரஹ்மா ருஷி: । அநுஷ்டுப் ச2ந்த:3 ।
சாமுண்டா3 தே3வதா । அங்க3ந்யாஸோக்த மாதரோ பீ3ஜம் । நவாவரணோ மந்த்ரஶக்தி: । தி3க்3ப3ந்த4 தே3வதா: தத்வம் । ஶ்ரீ ஜக3த3ம்பா3 ப்ரீத்யர்தே2 ஸப்தஶதீ பாடா2ங்க3த்வேந ஜபே விநியோக:3 ॥

ஓம் நமஶ்சண்டி3காயை

மார்கண்டே3ய உவாச ।
ஓம் யத்3கு3ஹ்யம் பரமம் லோகே ஸர்வரக்ஷாகரம் ந்ருணாம் ।
யந்ந கஸ்யசிதா3க்2யாதம் தந்மே ப்3ரூஹி பிதாமஹ ॥ 1 ॥

ப்3ரஹ்மோவாச ।
அஸ்தி கு3ஹ்யதமம் விப்ர ஸர்வபூ4தோபகாரகம் ।
தே3வ்யாஸ்து கவசம் புண்யம் தச்ச்2ருணுஷ்வ மஹாமுநே ॥ 2 ॥

ப்ரத2மம் ஶைலபுத்ரீ ச த்3விதீயம் ப்3ரஹ்மசாரிணீ ।
த்ருதீயம் சந்த்3ரக4ண்டேதி கூஷ்மாண்டே3தி சதுர்த2கம் ॥ 3 ॥

பஞ்சமம் ஸ்கந்த3மாதேதி ஷஷ்ட2ம் காத்யாயநீதி ச ।
ஸப்தமம் காலராத்ரீதி மஹாகௌ3ரீதி சாஷ்டமம் ॥ 4 ॥

நவமம் ஸித்3தி4தா3த்ரீ ச நவது3ர்கா3: ப்ரகீர்திதா: ।
உக்தாந்யேதாநி நாமாநி ப்3ரஹ்மணைவ மஹாத்மநா ॥ 5 ॥

அக்3நிநா த3ஹ்யமாநஸ்து ஶத்ருமத்4யே க3தோ ரணே ।
விஷமே து3ர்க3மே சைவ ப4யார்தா: ஶரணம் க3தா: ॥ 6 ॥

ந தேஷாம் ஜாயதே கிஞ்சித3ஶுப4ம் ரணஸங்கடே ।
நாபத3ம் தஸ்ய பஶ்யாமி ஶோகது3:க2ப4யம் ந ஹி ॥ 7 ॥

யைஸ்து ப4க்த்யா ஸ்ம்ருதா நூநம் தேஷாம் வ்ருத்3தி4: ப்ரஜாயதே ।
யே த்வாம் ஸ்மரந்தி தே3வேஶி ரக்ஷஸே தாந்நஸம்ஶய: ॥ 8 ॥

ப்ரேதஸம்ஸ்தா2 து சாமுண்டா3 வாராஹீ மஹிஷாஸநா ।
ஐந்த்3ரீ கஜ3ஸமாரூடா4 வைஷ்ணவீ க3ருடா3ஸநா ॥ 9 ॥

மாஹேஶ்வரீ வ்ருஷாரூடா4 கௌமாரீ ஶிகி2வாஹநா ।
லக்ஷ்மீ: பத்3மாஸநா தே3வீ பத்3மஹஸ்தா ஹரிப்ரியா ॥ 1௦ ॥

ஶ்வேதரூபத4ரா தே3வீ ஈஶ்வரீ வ்ருஷவாஹநா ।
ப்3ராஹ்மீ ஹம்ஸஸமாரூடா4 ஸர்வாப4ரணபூ4ஷிதா ॥ 11 ॥

இத்யேதா மாதர: ஸர்வா: ஸர்வயோக3ஸமந்விதா: ।
நாநாப4ரணாஶோபா4ட்4யா நாநாரத்நோபஶோபி4தா: ॥ 12 ॥

த்3ருஶ்யந்தே ரத2மாரூடா4 தே3வ்ய: க்ரோத4ஸமாகுலா: ।
ஶங்க2ம் சக்ரம் க3தா3ம் ஶக்திம் ஹலம் ச முஸலாயுத4ம் ॥ 13 ॥

கே2டகம் தோமரம் சைவ பரஶும் பாஶமேவ ச ।
குந்தாயுத4ம் த்ரிஶூலம் ச ஶார்ங்க3மாயுத4முத்தமம் ॥ 14 ॥

தை3த்யாநாம் தே3ஹநாஶாய ப4க்தாநாமப4யாய ச ।
தா4ரயந்த்யாயுதா4நீத்த2ம் தே3வாநாம் ச ஹிதாய வை ॥ 15 ॥

நமஸ்தேஸ்து மஹாரௌத்3ரே மஹாகோ4ரபராக்ரமே ।
மஹாப3லே மஹோத்ஸாஹே மஹாப4யவிநாஶிநி ॥ 16 ॥

த்ராஹி மாம் தே3வி து3ஷ்ப்ரேக்ஷ்யே ஶத்ரூணாம் ப4யவர்தி4நி ।
ப்ராச்யாம் ரக்ஷது மாமைந்த்3ரீ ஆக்3நேய்யாமக்3நிதே3வதா ॥ 17 ॥

த3க்ஷிணேவது வாராஹீ நைர்ருத்யாம் க2ட்3க3தா4ரிணீ ।
ப்ரதீச்யாம் வாருணீ ரக்ஷேத்3வாயவ்யாம் ம்ருக3வாஹிநீ ॥ 18 ॥

உதீ3ச்யாம் பாது கௌமாரீ ஐஶாந்யாம் ஶூலதா4ரிணீ ।
ஊர்த்4வம் ப்3ரஹ்மாணீ மே ரக்ஷேத3த4ஸ்தாத்3வைஷ்ணவீ ததா2 ॥ 19 ॥

ஏவம் த3ஶ தி3ஶோ ரக்ஷேச்சாமுண்டா3 ஶவவாஹநா ।
ஜயா மே சாக்3ரத: பாது விஜயா பாது ப்ருஷ்ட2த: ॥ 2௦ ॥

அஜிதா வாமபார்ஶ்வே து த3க்ஷிணே சாபராஜிதா ।
ஶிகா2முத்3யோதிநீ ரக்ஷேது3மா மூர்த்4நி வ்யவஸ்தி2தா ॥ 21 ॥

மாலாத4ரீ லலாடே ச ப்4ருவௌ ரக்ஷேத்3யஶஸ்விநீ ।
த்ரிநேத்ரா ச ப்4ருவோர்மத்4யே யமக4ண்டா ச நாஸிகே ॥ 22 ॥

ஶங்கி2நீ சக்ஷுஷோர்மத்4யே ஶ்ரோத்ரயோர்த்3வாரவாஸிநீ ।
கபோலௌ காலிகா ரக்ஷேத்கர்ணமூலே து ஶாங்கரீ ॥ 23 ॥

நாஸிகாயாம் ஸுக3ந்தா4 ச உத்தரோஷ்டே2 ச சர்சிகா ।
அத4ரே சாம்ருதகலா ஜிஹ்வாயாம் ச ஸரஸ்வதீ ॥ 24 ॥

த3ந்தாந் ரக்ஷது கௌமாரீ கண்ட2தே3ஶே து சண்டி3கா ।
க4ண்டிகாம் சித்ரக4ண்டா ச மஹாமாயா ச தாலுகே ॥ 25 ॥

காமாக்ஷீ சிபு3கம் ரக்ஷேத்3வாசம் மே ஸர்வமங்க3ல்தா3 ।
க்3ரீவாயாம் ப4த்3ரகால்தீ3 ச ப்ருஷ்ட2வம்ஶே த4நுர்த4ரீ ॥ 26 ॥

நீலக்3ரீவா ப3ஹி: கண்டே2 நலிகாம் நலகூப3ரீ ।
ஸ்கந்த4யோ: க2ட்3கி3நீ ரக்ஷேத்3பா3ஹூ மே வஜ்ரதா4ரிணீ ॥ 27 ॥

ஹஸ்தயோர்த3ண்டி3நீ ரக்ஷேத3ம்பி3கா சாங்கு3லீஷு ச ।
நகா2ஞ்சூ2லேஶ்வரீ ரக்ஷேத்குக்ஷௌ ரக்ஷேத்குலேஶ்வரீ ॥ 28 ॥

ஸ்தநௌ ரக்ஷேந்மஹாதே3வீ மந:ஶோகவிநாஶிநீ ।
ஹ்ருத3யே லலிதா தே3வீ உத3ரே ஶூலதா4ரிணீ ॥ 29 ॥

நாபௌ4 ச காமிநீ ரக்ஷேத்3கு3ஹ்யம் கு3ஹ்யேஶ்வரீ ததா2 ।
பூதநா காமிகா மேட்4ரம் கு3தே3 மஹிஷவாஹிநீ ॥ 3௦ ॥

கட்யாம் ப4க3வதீ ரக்ஷேஜ்ஜாநுநீ விந்த்4யவாஸிநீ ।
ஜங்கே4 மஹாப3லா ரக்ஷேத்ஸர்வகாமப்ரதா3யிநீ ॥ 31 ॥

கு3ல்ப2யோர்நாரஸிம்ஹீ ச பாத3ப்ருஷ்டே2 து தைஜஸீ ।
பாதா3ங்கு3லீஷு ஶ்ரீ ரக்ஷேத்பாதா3த4ஸ்தலவாஸிநீ ॥ 32 ॥

நகா2ந் த3ம்ஷ்ட்ரகராலீ ச கேஶாம்ஶ்சைவோர்த்4வகேஶிநீ ।
ரோமகூபேஷு கௌபே3ரீ த்வசம் வாகீ3ஶ்வரீ ததா2 ॥ 33 ॥

ரக்தமஜ்ஜாவஸாமாம்ஸாந்யஸ்தி2மேதா3ம்ஸி பார்வதீ ।
அந்த்ராணி காலராத்ரிஶ்ச பித்தம் ச முகுடேஶ்வரீ ॥ 34 ॥

பத்3மாவதீ பத்3மகோஶே கபே2 சூடா3மணிஸ்ததா2 ।
ஜ்வாலாமுகீ2 நகஜ2்வாலாமபே4த்3யா ஸர்வஸந்தி4ஷு ॥ 35 ॥

ஶுக்ரம் ப்3ரஹ்மாணி! மே ரக்ஷேச்சா2யாம் ச2த்ரேஶ்வரீ ததா2 ।
அஹங்காரம் மநோ பு3த்3தி4ம் ரக்ஷேந்மே த4ர்மதா4ரிணீ ॥ 36 ॥

ப்ராணாபாநௌ ததா2 வ்யாநமுதா3நம் ச ஸமாநகம் ।
வஜ்ரஹஸ்தா ச மே ரக்ஷேத்ப்ராணம் கல்யாணஶோப4நா ॥ 37 ॥

ரஸே ரூபே ச க3ந்தே4 ச ஶப்3தே3 ஸ்பர்ஶே ச யோகி3நீ ।
ஸத்த்வம் ரஜஸ்தமஶ்சைவ ரக்ஷேந்நாராயணீ ஸதா3 ॥ 38 ॥

ஆயூ ரக்ஷது வாராஹீ த4ர்மம் ரக்ஷது வைஷ்ணவீ ।
யஶ: கீர்திம் ச லக்ஷ்மீம் ச த4நம் வித்3யாம் ச சக்ரிணீ ॥ 39 ॥

கோ3த்ரமிந்த்3ராணி! மே ரக்ஷேத்பஶூந்மே ரக்ஷ சண்டி3கே ।
புத்ராந் ரக்ஷேந்மஹாலக்ஷ்மீர்பா4ர்யாம் ரக்ஷது பை4ரவீ ॥ 4௦ ॥

பந்தா2நம் ஸுபதா2 ரக்ஷேந்மார்க3ம் க்ஷேமகரீ ததா2 ।
ராஜத்3வாரே மஹாலக்ஷ்மீர்விஜயா ஸர்வத: ஸ்தி2தா ॥ 41 ॥

ரக்ஷாஹீநம் து யத்-ஸ்தா2நம் வர்ஜிதம் கவசேந து ।
தத்ஸர்வம் ரக்ஷ மே தே3வி! ஜயந்தீ பாபநாஶிநீ ॥ 42 ॥

பத3மேகம் ந க3ச்சே2த்து யதீ3ச்சே2ச்சு2ப4மாத்மந: ।
கவசேநாவ்ருதோ நித்யம் யத்ர யத்ரைவ க3ச்ச2தி ॥ 43 ॥

தத்ர தத்ரார்த2லாப4ஶ்ச விஜய: ஸார்வகாமிக: ।
யம் யம் சிந்தயதே காமம் தம் தம் ப்ராப்நோதி நிஶ்சிதம் ॥ 44 ॥

பரமைஶ்வர்யமதுலம் ப்ராப்ஸ்யதே பூ4தலே புமாந் ।
நிர்ப4யோ ஜாயதே மர்த்ய: ஸங்க்3ராமேஷ்வபராஜித: ॥ 45 ॥

த்ரைலோக்யே து ப4வேத்பூஜ்ய: கவசேநாவ்ருத: புமாந் ।
இத3ம் து தே3வ்யா: கவசம் தே3வாநாமபி து3ர்லப4ம் ॥ 46 ॥

ய: படே2த்ப்ரயதோ நித்யம் த்ரிஸந்த்4யம் ஶ்ரத்3த4யாந்வித: ।
தை3வீகலா ப4வேத்தஸ்ய த்ரைலோக்யேஷ்வபராஜித: । 47 ॥

ஜீவேத்3வர்ஷஶதம் ஸாக்3ரமபம்ருத்யுவிவர்ஜித: ।
நஶ்யந்தி வ்யாத4ய: ஸர்வே லூதாவிஸ்போ2டகாத3ய: ॥ 48 ॥

ஸ்தா2வரம் ஜங்க3மம் சைவ க்ருத்ரிமம் சைவ யத்3விஷம் ।
அபி4சாராணி ஸர்வாணி மந்த்ரயந்த்ராணி பூ4தலே ॥ 49 ॥

பூ4சரா: கே2சராஶ்சைவ ஜுலஜாஶ்சோபதே3ஶிகா: ।
ஸஹஜா குலஜா மாலா டா3கிநீ ஶாகிநீ ததா2 ॥ 5௦ ॥

அந்தரிக்ஷசரா கோ4ரா டா3கிந்யஶ்ச மஹாப3லா: ।
க்3ரஹபூ4தபிஶாசாஶ்ச யக்ஷக3ந்த4ர்வராக்ஷஸா: ॥ 51 ॥

ப்3ரஹ்மராக்ஷஸவேதாலா: கூஷ்மாண்டா3 பை4ரவாத3ய: ।
நஶ்யந்தி த3ர்ஶநாத்தஸ்ய கவசே ஹ்ருதி3 ஸம்ஸ்தி2தே ॥ 52 ॥

மாநோந்நதிர்ப4வேத்3ராஜ்ஞஸ்தேஜோவ்ருத்3தி4கரம் பரம் ।
யஶஸா வர்த4தே ஸோபி கீர்திமண்டி3தபூ4தலே ॥ 53 ॥

ஜபேத்ஸப்தஶதீம் சண்டீ3ம் க்ருத்வா து கவசம் புரா ।
யாவத்3பூ4மண்ட3லம் த4த்தே ஸஶைலவநகாநநம் ॥ 54 ॥

தாவத்திஷ்ட2தி மேதி3ந்யாம் ஸந்ததி: புத்ரபௌத்ரிகீ ।
தே3ஹாந்தே பரமம் ஸ்தா2நம் யத்ஸுரைரபி து3ர்லப4ம் ॥ 55 ॥

ப்ராப்நோதி புருஷோ நித்யம் மஹாமாயாப்ரஸாத3த: ।
லப4தே பரமம் ரூபம் ஶிவேந ஸஹ மோத3தே ॥ 56 ॥

॥ இதி வாராஹபுராணே ஹரிஹரப்3ரஹ்ம விரசிதம் தே3வ்யா: கவசம் ஸம்பூர்ணம் ॥

ದೇವೀ ಮಹಾತ್ಮ್ಯಂ ದೇವಿ ಕವಚಂ

ಓಂ ನಮಶ್ಚಂಡಿಕಾಯೈ

ನ್ಯಾಸಃ
ಅಸ್ಯ ಶ್ರೀ ಚಂಡೀ ಕವಚಸ್ಯ । ಬ್ರಹ್ಮಾ ಋಷಿಃ । ಅನುಷ್ಟುಪ್ ಛಂದಃ ।
ಚಾಮುಂಡಾ ದೇವತಾ । ಅಂಗನ್ಯಾಸೋಕ್ತ ಮಾತರೋ ಬೀಜಂ । ನವಾವರಣೋ ಮಂತ್ರಶಕ್ತಿಃ । ದಿಗ್ಬಂಧ ದೇವತಾಃ ತತ್ವಂ । ಶ್ರೀ ಜಗದಂಬಾ ಪ್ರೀತ್ಯರ್ಥೇ ಸಪ್ತಶತೀ ಪಾಠಾಂಗತ್ವೇನ ಜಪೇ ವಿನಿಯೋಗಃ ॥

ಓಂ ನಮಶ್ಚಂಡಿಕಾಯೈ

ಮಾರ್ಕಂಡೇಯ ಉವಾಚ ।
ಓಂ ಯದ್ಗುಹ್ಯಂ ಪರಮಂ ಲೋಕೇ ಸರ್ವರಕ್ಷಾಕರಂ ನೃಣಾಂ ।
ಯನ್ನ ಕಸ್ಯಚಿದಾಖ್ಯಾತಂ ತನ್ಮೇ ಬ್ರೂಹಿ ಪಿತಾಮಹ ॥ 1 ॥

ಬ್ರಹ್ಮೋವಾಚ ।
ಅಸ್ತಿ ಗುಹ್ಯತಮಂ ವಿಪ್ರ ಸರ್ವಭೂತೋಪಕಾರಕಂ ।
ದೇವ್ಯಾಸ್ತು ಕವಚಂ ಪುಣ್ಯಂ ತಚ್ಛೃಣುಷ್ವ ಮಹಾಮುನೇ ॥ 2 ॥

ಪ್ರಥಮಂ ಶೈಲಪುತ್ರೀ ಚ ದ್ವಿತೀಯಂ ಬ್ರಹ್ಮಚಾರಿಣೀ ।
ತೃತೀಯಂ ಚಂದ್ರಘಂಟೇತಿ ಕೂಷ್ಮಾಂಡೇತಿ ಚತುರ್ಥಕಂ ॥ 3 ॥

ಪಂಚಮಂ ಸ್ಕಂದಮಾತೇತಿ ಷಷ್ಠಂ ಕಾತ್ಯಾಯನೀತಿ ಚ ।
ಸಪ್ತಮಂ ಕಾಲರಾತ್ರೀತಿ ಮಹಾಗೌರೀತಿ ಚಾಷ್ಟಮಂ ॥ 4 ॥

ನವಮಂ ಸಿದ್ಧಿದಾತ್ರೀ ಚ ನವದುರ್ಗಾಃ ಪ್ರಕೀರ್ತಿತಾಃ ।
ಉಕ್ತಾನ್ಯೇತಾನಿ ನಾಮಾನಿ ಬ್ರಹ್ಮಣೈವ ಮಹಾತ್ಮನಾ ॥ 5 ॥

ಅಗ್ನಿನಾ ದಹ್ಯಮಾನಸ್ತು ಶತ್ರುಮಧ್ಯೇ ಗತೋ ರಣೇ ।
ವಿಷಮೇ ದುರ್ಗಮೇ ಚೈವ ಭಯಾರ್ತಾಃ ಶರಣಂ ಗತಾಃ ॥ 6 ॥

ನ ತೇಷಾಂ ಜಾಯತೇ ಕಿಂಚಿದಶುಭಂ ರಣಸಂಕಟೇ ।
ನಾಪದಂ ತಸ್ಯ ಪಶ್ಯಾಮಿ ಶೋಕದುಃಖಭಯಂ ನ ಹಿ ॥ 7 ॥

ಯೈಸ್ತು ಭಕ್ತ್ಯಾ ಸ್ಮೃತಾ ನೂನಂ ತೇಷಾಂ ವೃದ್ಧಿಃ ಪ್ರಜಾಯತೇ ।
ಯೇ ತ್ವಾಂ ಸ್ಮರಂತಿ ದೇವೇಶಿ ರಕ್ಷಸೇ ತಾನ್ನಸಂಶಯಃ ॥ 8 ॥

ಪ್ರೇತಸಂಸ್ಥಾ ತು ಚಾಮುಂಡಾ ವಾರಾಹೀ ಮಹಿಷಾಸನಾ ।
ಐಂದ್ರೀ ಗಜಸಮಾರೂಢಾ ವೈಷ್ಣವೀ ಗರುಡಾಸನಾ ॥ 9 ॥

ಮಾಹೇಶ್ವರೀ ವೃಷಾರೂಢಾ ಕೌಮಾರೀ ಶಿಖಿವಾಹನಾ ।
ಲಕ್ಷ್ಮೀಃ ಪದ್ಮಾಸನಾ ದೇವೀ ಪದ್ಮಹಸ್ತಾ ಹರಿಪ್ರಿಯಾ ॥ 10 ॥

ಶ್ವೇತರೂಪಧರಾ ದೇವೀ ಈಶ್ವರೀ ವೃಷವಾಹನಾ ।
ಬ್ರಾಹ್ಮೀ ಹಂಸಸಮಾರೂಢಾ ಸರ್ವಾಭರಣಭೂಷಿತಾ ॥ 11 ॥

ಇತ್ಯೇತಾ ಮಾತರಃ ಸರ್ವಾಃ ಸರ್ವಯೋಗಸಮನ್ವಿತಾಃ ।
ನಾನಾಭರಣಾಶೋಭಾಢ್ಯಾ ನಾನಾರತ್ನೋಪಶೋಭಿತಾಃ ॥ 12 ॥

ದೃಶ್ಯಂತೇ ರಥಮಾರೂಢಾ ದೇವ್ಯಃ ಕ್ರೋಧಸಮಾಕುಲಾಃ ।
ಶಂಖಂ ಚಕ್ರಂ ಗದಾಂ ಶಕ್ತಿಂ ಹಲಂ ಚ ಮುಸಲಾಯುಧಂ ॥ 13 ॥

ಖೇಟಕಂ ತೋಮರಂ ಚೈವ ಪರಶುಂ ಪಾಶಮೇವ ಚ ।
ಕುಂತಾಯುಧಂ ತ್ರಿಶೂಲಂ ಚ ಶಾರಂಗಮಾಯುಧಮುತ್ತಮಂ ॥ 14 ॥

ದೈತ್ಯಾನಾಂ ದೇಹನಾಶಾಯ ಭಕ್ತಾನಾಮಭಯಾಯ ಚ ।
ಧಾರಯಂತ್ಯಾಯುಧಾನೀತ್ಥಂ ದೇವಾನಾಂ ಚ ಹಿತಾಯ ವೈ ॥ 15 ॥

ನಮಸ್ತೇಽಸ್ತು ಮಹಾರೌದ್ರೇ ಮಹಾಘೋರಪರಾಕ್ರಮೇ ।
ಮಹಾಬಲೇ ಮಹೋತ್ಸಾಹೇ ಮಹಾಭಯವಿನಾಶಿನಿ ॥ 16 ॥

ತ್ರಾಹಿ ಮಾಂ ದೇವಿ ದುಷ್ಪ್ರೇಕ್ಷ್ಯೇ ಶತ್ರೂಣಾಂ ಭಯವರ್ಧಿನಿ ।
ಪ್ರಾಚ್ಯಾಂ ರಕ್ಷತು ಮಾಮೈಂದ್ರೀ ಆಗ್ನೇಯ್ಯಾಮಗ್ನಿದೇವತಾ ॥ 17 ॥

ದಕ್ಷಿಣೇಽವತು ವಾರಾಹೀ ನೈರೃತ್ಯಾಂ ಖಡ್ಗಧಾರಿಣೀ ।
ಪ್ರತೀಚ್ಯಾಂ ವಾರುಣೀ ರಕ್ಷೇದ್ವಾಯವ್ಯಾಂ ಮೃಗವಾಹಿನೀ ॥ 18 ॥

ಉದೀಚ್ಯಾಂ ಪಾತು ಕೌಮಾರೀ ಐಶಾನ್ಯಾಂ ಶೂಲಧಾರಿಣೀ ।
ಊರ್ಧ್ವಂ ಬ್ರಹ್ಮಾಣೀ ಮೇ ರಕ್ಷೇದಧಸ್ತಾದ್ವೈಷ್ಣವೀ ತಥಾ ॥ 19 ॥

ಏವಂ ದಶ ದಿಶೋ ರಕ್ಷೇಚ್ಚಾಮುಂಡಾ ಶವವಾಹನಾ ।
ಜಯಾ ಮೇ ಚಾಗ್ರತಃ ಪಾತು ವಿಜಯಾ ಪಾತು ಪೃಷ್ಠತಃ ॥ 20 ॥

ಅಜಿತಾ ವಾಮಪಾರ್ಶ್ವೇ ತು ದಕ್ಷಿಣೇ ಚಾಪರಾಜಿತಾ ।
ಶಿಖಾಮುದ್ಯೋತಿನೀ ರಕ್ಷೇದುಮಾ ಮೂರ್ಧ್ನಿ ವ್ಯವಸ್ಥಿತಾ ॥ 21 ॥

ಮಾಲಾಧರೀ ಲಲಾಟೇ ಚ ಭ್ರುವೌ ರಕ್ಷೇದ್ಯಶಸ್ವಿನೀ ।
ತ್ರಿನೇತ್ರಾ ಚ ಭ್ರುವೋರ್ಮಧ್ಯೇ ಯಮಘಂಟಾ ಚ ನಾಸಿಕೇ ॥ 22 ॥

ಶಂಖಿನೀ ಚಕ್ಷುಷೋರ್ಮಧ್ಯೇ ಶ್ರೋತ್ರಯೋರ್ದ್ವಾರವಾಸಿನೀ ।
ಕಪೋಲೌ ಕಾಲಿಕಾ ರಕ್ಷೇತ್ಕರ್ಣಮೂಲೇ ತು ಶಾಂಕರೀ ॥ 23 ॥

ನಾಸಿಕಾಯಾಂ ಸುಗಂಧಾ ಚ ಉತ್ತರೋಷ್ಠೇ ಚ ಚರ್ಚಿಕಾ ।
ಅಧರೇ ಚಾಮೃತಕಲಾ ಜಿಹ್ವಾಯಾಂ ಚ ಸರಸ್ವತೀ ॥ 24 ॥

ದಂತಾನ್ ರಕ್ಷತು ಕೌಮಾರೀ ಕಂಠದೇಶೇ ತು ಚಂಡಿಕಾ ।
ಘಂಟಿಕಾಂ ಚಿತ್ರಘಂಟಾ ಚ ಮಹಾಮಾಯಾ ಚ ತಾಲುಕೇ ॥ 25 ॥

ಕಾಮಾಕ್ಷೀ ಚಿಬುಕಂ ರಕ್ಷೇದ್ವಾಚಂ ಮೇ ಸರ್ವಮಂಗಳಾ ।
ಗ್ರೀವಾಯಾಂ ಭದ್ರಕಾಳೀ ಚ ಪೃಷ್ಠವಂಶೇ ಧನುರ್ಧರೀ ॥ 26 ॥

ನೀಲಗ್ರೀವಾ ಬಹಿಃ ಕಂಠೇ ನಲಿಕಾಂ ನಲಕೂಬರೀ ।
ಸ್ಕಂಧಯೋಃ ಖಡ್ಗಿನೀ ರಕ್ಷೇದ್ಬಾಹೂ ಮೇ ವಜ್ರಧಾರಿಣೀ ॥ 27 ॥

ಹಸ್ತಯೋರ್ದಂಡಿನೀ ರಕ್ಷೇದಂಬಿಕಾ ಚಾಂಗುಲೀಷು ಚ ।
ನಖಾಂಛೂಲೇಶ್ವರೀ ರಕ್ಷೇತ್ಕುಕ್ಷೌ ರಕ್ಷೇತ್ಕುಲೇಶ್ವರೀ ॥ 28 ॥

ಸ್ತನೌ ರಕ್ಷೇನ್ಮಹಾದೇವೀ ಮನಃಶೋಕವಿನಾಶಿನೀ ।
ಹೃದಯೇ ಲಲಿತಾ ದೇವೀ ಉದರೇ ಶೂಲಧಾರಿಣೀ ॥ 29 ॥

ನಾಭೌ ಚ ಕಾಮಿನೀ ರಕ್ಷೇದ್ಗುಹ್ಯಂ ಗುಹ್ಯೇಶ್ವರೀ ತಥಾ ।
ಪೂತನಾ ಕಾಮಿಕಾ ಮೇಢ್ರಂ ಗುದೇ ಮಹಿಷವಾಹಿನೀ ॥ 30 ॥

ಕಟ್ಯಾಂ ಭಗವತೀ ರಕ್ಷೇಜ್ಜಾನುನೀ ವಿಂಧ್ಯವಾಸಿನೀ ।
ಜಂಘೇ ಮಹಾಬಲಾ ರಕ್ಷೇತ್ಸರ್ವಕಾಮಪ್ರದಾಯಿನೀ ॥ 31 ॥

ಗುಲ್ಫಯೋರ್ನಾರಸಿಂಹೀ ಚ ಪಾದಪೃಷ್ಠೇ ತು ತೈಜಸೀ ।
ಪಾದಾಂಗುಲೀಷು ಶ್ರೀ ರಕ್ಷೇತ್ಪಾದಾಧಸ್ತಲವಾಸಿನೀ ॥ 32 ॥

ನಖಾನ್ ದಂಷ್ಟ್ರಕರಾಲೀ ಚ ಕೇಶಾಂಶ್ಚೈವೋರ್ಧ್ವಕೇಶಿನೀ ।
ರೋಮಕೂಪೇಷು ಕೌಬೇರೀ ತ್ವಚಂ ವಾಗೀಶ್ವರೀ ತಥಾ ॥ 33 ॥

ರಕ್ತಮಜ್ಜಾವಸಾಮಾಂಸಾನ್ಯಸ್ಥಿಮೇದಾಂಸಿ ಪಾರ್ವತೀ ।
ಅಂತ್ರಾಣಿ ಕಾಲರಾತ್ರಿಶ್ಚ ಪಿತ್ತಂ ಚ ಮುಕುಟೇಶ್ವರೀ ॥ 34 ॥

ಪದ್ಮಾವತೀ ಪದ್ಮಕೋಶೇ ಕಫೇ ಚೂಡಾಮಣಿಸ್ತಥಾ ।
ಜ್ವಾಲಾಮುಖೀ ನಖಜ್ವಾಲಾಮಭೇದ್ಯಾ ಸರ್ವಸಂಧಿಷು ॥ 35 ॥

ಶುಕ್ರಂ ಬ್ರಹ್ಮಾಣಿ! ಮೇ ರಕ್ಷೇಚ್ಛಾಯಾಂ ಛತ್ರೇಶ್ವರೀ ತಥಾ ।
ಅಹಂಕಾರಂ ಮನೋ ಬುದ್ಧಿಂ ರಕ್ಷೇನ್ಮೇ ಧರ್ಮಧಾರಿಣೀ ॥ 36 ॥

ಪ್ರಾಣಾಪಾನೌ ತಥಾ ವ್ಯಾನಮುದಾನಂ ಚ ಸಮಾನಕಂ ।
ವಜ್ರಹಸ್ತಾ ಚ ಮೇ ರಕ್ಷೇತ್ಪ್ರಾಣಂ ಕಲ್ಯಾಣಶೋಭನಾ ॥ 37 ॥

ರಸೇ ರೂಪೇ ಚ ಗಂಧೇ ಚ ಶಬ್ದೇ ಸ್ಪರ್ಶೇ ಚ ಯೋಗಿನೀ ।
ಸತ್ತ್ವಂ ರಜಸ್ತಮಶ್ಚೈವ ರಕ್ಷೇನ್ನಾರಾಯಣೀ ಸದಾ ॥ 38 ॥

ಆಯೂ ರಕ್ಷತು ವಾರಾಹೀ ಧರ್ಮಂ ರಕ್ಷತು ವೈಷ್ಣವೀ ।
ಯಶಃ ಕೀರ್ತಿಂ ಚ ಲಕ್ಷ್ಮೀಂ ಚ ಧನಂ ವಿದ್ಯಾಂ ಚ ಚಕ್ರಿಣೀ ॥ 39 ॥

ಗೋತ್ರಮಿಂದ್ರಾಣಿ! ಮೇ ರಕ್ಷೇತ್ಪಶೂನ್ಮೇ ರಕ್ಷ ಚಂಡಿಕೇ ।
ಪುತ್ರಾನ್ ರಕ್ಷೇನ್ಮಹಾಲಕ್ಷ್ಮೀರ್ಭಾರ್ಯಾಂ ರಕ್ಷತು ಭೈರವೀ ॥ 40 ॥

ಪಂಥಾನಂ ಸುಪಥಾ ರಕ್ಷೇನ್ಮಾರ್ಗಂ ಕ್ಷೇಮಕರೀ ತಥಾ ।
ರಾಜದ್ವಾರೇ ಮಹಾಲಕ್ಷ್ಮೀರ್ವಿಜಯಾ ಸರ್ವತಃ ಸ್ಥಿತಾ ॥ 41 ॥

ರಕ್ಷಾಹೀನಂ ತು ಯತ್-ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ತು ।
ತತ್ಸರ್ವಂ ರಕ್ಷ ಮೇ ದೇವಿ! ಜಯಂತೀ ಪಾಪನಾಶಿನೀ ॥ 42 ॥

ಪದಮೇಕಂ ನ ಗಚ್ಛೇತ್ತು ಯದೀಚ್ಛೇಚ್ಛುಭಮಾತ್ಮನಃ ।
ಕವಚೇನಾವೃತೋ ನಿತ್ಯಂ ಯತ್ರ ಯತ್ರೈವ ಗಚ್ಛತಿ ॥ 43 ॥

ತತ್ರ ತತ್ರಾರ್ಥಲಾಭಶ್ಚ ವಿಜಯಃ ಸಾರ್ವಕಾಮಿಕಃ ।
ಯಂ ಯಂ ಚಿಂತಯತೇ ಕಾಮಂ ತಂ ತಂ ಪ್ರಾಪ್ನೋತಿ ನಿಶ್ಚಿತಂ ॥ 44 ॥

ಪರಮೈಶ್ವರ್ಯಮತುಲಂ ಪ್ರಾಪ್ಸ್ಯತೇ ಭೂತಲೇ ಪುಮಾನ್ ।
ನಿರ್ಭಯೋ ಜಾಯತೇ ಮರ್ತ್ಯಃ ಸಂಗ್ರಾಮೇಷ್ವಪರಾಜಿತಃ ॥ 45 ॥

ತ್ರೈಲೋಕ್ಯೇ ತು ಭವೇತ್ಪೂಜ್ಯಃ ಕವಚೇನಾವೃತಃ ಪುಮಾನ್ ।
ಇದಂ ತು ದೇವ್ಯಾಃ ಕವಚಂ ದೇವಾನಾಮಪಿ ದುರ್ಲಭಂ ॥ 46 ॥

ಯಃ ಪಠೇತ್ಪ್ರಯತೋ ನಿತ್ಯಂ ತ್ರಿಸಂಧ್ಯಂ ಶ್ರದ್ಧಯಾನ್ವಿತಃ ।
ದೈವೀಕಲಾ ಭವೇತ್ತಸ್ಯ ತ್ರೈಲೋಕ್ಯೇಷ್ವಪರಾಜಿತಃ । 47 ॥

ಜೀವೇದ್ವರ್ಷಶತಂ ಸಾಗ್ರಮಪಮೃತ್ಯುವಿವರ್ಜಿತಃ ।
ನಶ್ಯಂತಿ ವ್ಯಾಧಯಃ ಸರ್ವೇ ಲೂತಾವಿಸ್ಫೋಟಕಾದಯಃ ॥ 48 ॥

ಸ್ಥಾವರಂ ಜಂಗಮಂ ಚೈವ ಕೃತ್ರಿಮಂ ಚೈವ ಯದ್ವಿಷಂ ।
ಅಭಿಚಾರಾಣಿ ಸರ್ವಾಣಿ ಮಂತ್ರಯಂತ್ರಾಣಿ ಭೂತಲೇ ॥ 49 ॥

ಭೂಚರಾಃ ಖೇಚರಾಶ್ಚೈವ ಜುಲಜಾಶ್ಚೋಪದೇಶಿಕಾಃ ।
ಸಹಜಾ ಕುಲಜಾ ಮಾಲಾ ಡಾಕಿನೀ ಶಾಕಿನೀ ತಥಾ ॥ 50 ॥

ಅಂತರಿಕ್ಷಚರಾ ಘೋರಾ ಡಾಕಿನ್ಯಶ್ಚ ಮಹಾಬಲಾಃ ।
ಗ್ರಹಭೂತಪಿಶಾಚಾಶ್ಚ ಯಕ್ಷಗಂಧರ್ವರಾಕ್ಷಸಾಃ ॥ 51 ॥

ಬ್ರಹ್ಮರಾಕ್ಷಸವೇತಾಲಾಃ ಕೂಷ್ಮಾಂಡಾ ಭೈರವಾದಯಃ ।
ನಶ್ಯಂತಿ ದರ್ಶನಾತ್ತಸ್ಯ ಕವಚೇ ಹೃದಿ ಸಂಸ್ಥಿತೇ ॥ 52 ॥

ಮಾನೋನ್ನತಿರ್ಭವೇದ್ರಾಜ್ಞಸ್ತೇಜೋವೃದ್ಧಿಕರಂ ಪರಂ ।
ಯಶಸಾ ವರ್ಧತೇ ಸೋಽಪಿ ಕೀರ್ತಿಮಂಡಿತಭೂತಲೇ ॥ 53 ॥

ಜಪೇತ್ಸಪ್ತಶತೀಂ ಚಂಡೀಂ ಕೃತ್ವಾ ತು ಕವಚಂ ಪುರಾ ।
ಯಾವದ್ಭೂಮಂಡಲಂ ಧತ್ತೇ ಸಶೈಲವನಕಾನನಂ ॥ 54 ॥

ತಾವತ್ತಿಷ್ಠತಿ ಮೇದಿನ್ಯಾಂ ಸಂತತಿಃ ಪುತ್ರಪೌತ್ರಿಕೀ ।
ದೇಹಾಂತೇ ಪರಮಂ ಸ್ಥಾನಂ ಯತ್ಸುರೈರಪಿ ದುರ್ಲಭಂ ॥ 55 ॥

ಪ್ರಾಪ್ನೋತಿ ಪುರುಷೋ ನಿತ್ಯಂ ಮಹಾಮಾಯಾಪ್ರಸಾದತಃ ।
ಲಭತೇ ಪರಮಂ ರೂಪಂ ಶಿವೇನ ಸಹ ಮೋದತೇ ॥ 56 ॥

॥ ಇತಿ ವಾರಾಹಪುರಾಣೇ ಹರಿಹರಬ್ರಹ್ಮ ವಿರಚಿತಂ ದೇವ್ಯಾಃ ಕವಚಂ ಸಂಪೂರ್ಣಂ ॥


દેવી મહાત્મ્યમ્ દેવિ કવચમ્

ઓં નમશ્ચંડિકાયૈ

ન્યાસઃ
અસ્ય શ્રી ચંડી કવચસ્ય । બ્રહ્મા ઋષિઃ । અનુષ્ટુપ્ છંદઃ ।
ચામુંડા દેવતા । અંગન્યાસોક્ત માતરો બીજમ્ । નવાવરણો મંત્રશક્તિઃ । દિગ્બંધ દેવતાઃ તત્વં । શ્રી જગદંબા પ્રીત્યર્થે સપ્તશતી પાઠાંગત્વેન જપે વિનિયોગઃ ॥

ઓં નમશ્ચંડિકાયૈ

માર્કંડેય ઉવાચ ।
ઓં યદ્ગુહ્યં પરમં લોકે સર્વરક્ષાકરં નૃણામ્ ।
યન્ન કસ્યચિદાખ્યાતં તન્મે બ્રૂહિ પિતામહ ॥ 1 ॥

બ્રહ્મોવાચ ।
અસ્તિ ગુહ્યતમં વિપ્ર સર્વભૂતોપકારકમ્ ।
દેવ્યાસ્તુ કવચં પુણ્યં તચ્છૃણુષ્વ મહામુને ॥ 2 ॥

પ્રથમં શૈલપુત્રી ચ દ્વિતીયં બ્રહ્મચારિણી ।
તૃતીયં ચંદ્રઘંટેતિ કૂષ્માંડેતિ ચતુર્થકમ્ ॥ 3 ॥

પંચમં સ્કંદમાતેતિ ષષ્ઠં કાત્યાયનીતિ ચ ।
સપ્તમં કાલરાત્રીતિ મહાગૌરીતિ ચાષ્ટમમ્ ॥ 4 ॥

નવમં સિદ્ધિદાત્રી ચ નવદુર્ગાઃ પ્રકીર્તિતાઃ ।
ઉક્તાન્યેતાનિ નામાનિ બ્રહ્મણૈવ મહાત્મના ॥ 5 ॥

અગ્નિના દહ્યમાનસ્તુ શત્રુમધ્યે ગતો રણે ।
વિષમે દુર્ગમે ચૈવ ભયાર્તાઃ શરણં ગતાઃ ॥ 6 ॥

ન તેષાં જાયતે કિંચિદશુભં રણસંકટે ।
નાપદં તસ્ય પશ્યામિ શોકદુઃખભયં ન હિ ॥ 7 ॥

યૈસ્તુ ભક્ત્યા સ્મૃતા નૂનં તેષાં વૃદ્ધિઃ પ્રજાયતે ।
યે ત્વાં સ્મરંતિ દેવેશિ રક્ષસે તાન્નસંશયઃ ॥ 8 ॥

પ્રેતસંસ્થા તુ ચામુંડા વારાહી મહિષાસના ।
ઐંદ્રી ગજસમારૂઢા વૈષ્ણવી ગરુડાસના ॥ 9 ॥

માહેશ્વરી વૃષારૂઢા કૌમારી શિખિવાહના ।
લક્ષ્મીઃ પદ્માસના દેવી પદ્મહસ્તા હરિપ્રિયા ॥ 10 ॥

શ્વેતરૂપધરા દેવી ઈશ્વરી વૃષવાહના ।
બ્રાહ્મી હંસસમારૂઢા સર્વાભરણભૂષિતા ॥ 11 ॥

ઇત્યેતા માતરઃ સર્વાઃ સર્વયોગસમન્વિતાઃ ।
નાનાભરણાશોભાઢ્યા નાનારત્નોપશોભિતાઃ ॥ 12 ॥

દૃશ્યંતે રથમારૂઢા દેવ્યઃ ક્રોધસમાકુલાઃ ।
શંખં ચક્રં ગદાં શક્તિં હલં ચ મુસલાયુધમ્ ॥ 13 ॥

ખેટકં તોમરં ચૈવ પરશું પાશમેવ ચ ।
કુંતાયુધં ત્રિશૂલં ચ શારંગમાયુધમુત્તમમ્ ॥ 14 ॥

દૈત્યાનાં દેહનાશાય ભક્તાનામભયાય ચ ।
ધારયંત્યાયુધાનીત્થં દેવાનાં ચ હિતાય વૈ ॥ 15 ॥

નમસ્તેઽસ્તુ મહારૌદ્રે મહાઘોરપરાક્રમે ।
મહાબલે મહોત્સાહે મહાભયવિનાશિનિ ॥ 16 ॥

ત્રાહિ માં દેવિ દુષ્પ્રેક્ષ્યે શત્રૂણાં ભયવર્ધિનિ ।
પ્રાચ્યાં રક્ષતુ મામૈંદ્રી આગ્નેય્યામગ્નિદેવતા ॥ 17 ॥

દક્ષિણેઽવતુ વારાહી નૈરૃત્યાં ખડ્ગધારિણી ।
પ્રતીચ્યાં વારુણી રક્ષેદ્વાયવ્યાં મૃગવાહિની ॥ 18 ॥

ઉદીચ્યાં પાતુ કૌમારી ઐશાન્યાં શૂલધારિણી ।
ઊર્ધ્વં બ્રહ્માણી મે રક્ષેદધસ્તાદ્વૈષ્ણવી તથા ॥ 19 ॥

એવં દશ દિશો રક્ષેચ્ચામુંડા શવવાહના ।
જયા મે ચાગ્રતઃ પાતુ વિજયા પાતુ પૃષ્ઠતઃ ॥ 20 ॥

અજિતા વામપાર્શ્વે તુ દક્ષિણે ચાપરાજિતા ।
શિખામુદ્યોતિની રક્ષેદુમા મૂર્ધ્નિ વ્યવસ્થિતા ॥ 21 ॥

માલાધરી લલાટે ચ ભ્રુવૌ રક્ષેદ્યશસ્વિની ।
ત્રિનેત્રા ચ ભ્રુવોર્મધ્યે યમઘંટા ચ નાસિકે ॥ 22 ॥

શંખિની ચક્ષુષોર્મધ્યે શ્રોત્રયોર્દ્વારવાસિની ।
કપોલૌ કાલિકા રક્ષેત્કર્ણમૂલે તુ શાંકરી ॥ 23 ॥

નાસિકાયાં સુગંધા ચ ઉત્તરોષ્ઠે ચ ચર્ચિકા ।
અધરે ચામૃતકલા જિહ્વાયાં ચ સરસ્વતી ॥ 24 ॥

દંતાન્ રક્ષતુ કૌમારી કંઠદેશે તુ ચંડિકા ।
ઘંટિકાં ચિત્રઘંટા ચ મહામાયા ચ તાલુકે ॥ 25 ॥

કામાક્ષી ચિબુકં રક્ષેદ્વાચં મે સર્વમંગળા ।
ગ્રીવાયાં ભદ્રકાળી ચ પૃષ્ઠવંશે ધનુર્ધરી ॥ 26 ॥

નીલગ્રીવા બહિઃ કંઠે નલિકાં નલકૂબરી ।
સ્કંધયોઃ ખડ્ગિની રક્ષેદ્બાહૂ મે વજ્રધારિણી ॥ 27 ॥

હસ્તયોર્દંડિની રક્ષેદંબિકા ચાંગુલીષુ ચ ।
નખાંછૂલેશ્વરી રક્ષેત્કુક્ષૌ રક્ષેત્કુલેશ્વરી ॥ 28 ॥

સ્તનૌ રક્ષેન્મહાદેવી મનઃશોકવિનાશિની ।
હૃદયે લલિતા દેવી ઉદરે શૂલધારિણી ॥ 29 ॥

નાભૌ ચ કામિની રક્ષેદ્ગુહ્યં ગુહ્યેશ્વરી તથા ।
પૂતના કામિકા મેઢ્રં ગુદે મહિષવાહિની ॥ 30 ॥

કટ્યાં ભગવતી રક્ષેજ્જાનુની વિંધ્યવાસિની ।
જંઘે મહાબલા રક્ષેત્સર્વકામપ્રદાયિની ॥ 31 ॥

ગુલ્ફયોર્નારસિંહી ચ પાદપૃષ્ઠે તુ તૈજસી ।
પાદાંગુલીષુ શ્રી રક્ષેત્પાદાધસ્તલવાસિની ॥ 32 ॥

નખાન્ દંષ્ટ્રકરાલી ચ કેશાંશ્ચૈવોર્ધ્વકેશિની ।
રોમકૂપેષુ કૌબેરી ત્વચં વાગીશ્વરી તથા ॥ 33 ॥

રક્તમજ્જાવસામાંસાન્યસ્થિમેદાંસિ પાર્વતી ।
અંત્રાણિ કાલરાત્રિશ્ચ પિત્તં ચ મુકુટેશ્વરી ॥ 34 ॥

પદ્માવતી પદ્મકોશે કફે ચૂડામણિસ્તથા ।
જ્વાલામુખી નખજ્વાલામભેદ્યા સર્વસંધિષુ ॥ 35 ॥

શુક્રં બ્રહ્માણિ! મે રક્ષેચ્છાયાં છત્રેશ્વરી તથા ।
અહંકારં મનો બુદ્ધિં રક્ષેન્મે ધર્મધારિણી ॥ 36 ॥

પ્રાણાપાનૌ તથા વ્યાનમુદાનં ચ સમાનકમ્ ।
વજ્રહસ્તા ચ મે રક્ષેત્પ્રાણં કલ્યાણશોભના ॥ 37 ॥

રસે રૂપે ચ ગંધે ચ શબ્દે સ્પર્શે ચ યોગિની ।
સત્ત્વં રજસ્તમશ્ચૈવ રક્ષેન્નારાયણી સદા ॥ 38 ॥

આયૂ રક્ષતુ વારાહી ધર્મં રક્ષતુ વૈષ્ણવી ।
યશઃ કીર્તિં ચ લક્ષ્મીં ચ ધનં વિદ્યાં ચ ચક્રિણી ॥ 39 ॥

ગોત્રમિંદ્રાણિ! મે રક્ષેત્પશૂન્મે રક્ષ ચંડિકે ।
પુત્રાન્ રક્ષેન્મહાલક્ષ્મીર્ભાર્યાં રક્ષતુ ભૈરવી ॥ 40 ॥

પંથાનં સુપથા રક્ષેન્માર્ગં ક્ષેમકરી તથા ।
રાજદ્વારે મહાલક્ષ્મીર્વિજયા સર્વતઃ સ્થિતા ॥ 41 ॥

રક્ષાહીનં તુ યત્-સ્થાનં વર્જિતં કવચેન તુ ।
તત્સર્વં રક્ષ મે દેવિ! જયંતી પાપનાશિની ॥ 42 ॥

પદમેકં ન ગચ્છેત્તુ યદીચ્છેચ્છુભમાત્મનઃ ।
કવચેનાવૃતો નિત્યં યત્ર યત્રૈવ ગચ્છતિ ॥ 43 ॥

તત્ર તત્રાર્થલાભશ્ચ વિજયઃ સાર્વકામિકઃ ।
યં યં ચિંતયતે કામં તં તં પ્રાપ્નોતિ નિશ્ચિતમ્ ॥ 44 ॥

પરમૈશ્વર્યમતુલં પ્રાપ્સ્યતે ભૂતલે પુમાન્ ।
નિર્ભયો જાયતે મર્ત્યઃ સંગ્રામેષ્વપરાજિતઃ ॥ 45 ॥

ત્રૈલોક્યે તુ ભવેત્પૂજ્યઃ કવચેનાવૃતઃ પુમાન્ ।
ઇદં તુ દેવ્યાઃ કવચં દેવાનામપિ દુર્લભમ્ ॥ 46 ॥

યઃ પઠેત્પ્રયતો નિત્યં ત્રિસંધ્યં શ્રદ્ધયાન્વિતઃ ।
દૈવીકલા ભવેત્તસ્ય ત્રૈલોક્યેષ્વપરાજિતઃ । 47 ॥

જીવેદ્વર્ષશતં સાગ્રમપમૃત્યુવિવર્જિતઃ ।
નશ્યંતિ વ્યાધયઃ સર્વે લૂતાવિસ્ફોટકાદયઃ ॥ 48 ॥

સ્થાવરં જંગમં ચૈવ કૃત્રિમં ચૈવ યદ્વિષમ્ ।
અભિચારાણિ સર્વાણિ મંત્રયંત્રાણિ ભૂતલે ॥ 49 ॥

ભૂચરાઃ ખેચરાશ્ચૈવ જુલજાશ્ચોપદેશિકાઃ ।
સહજા કુલજા માલા ડાકિની શાકિની તથા ॥ 50 ॥

અંતરિક્ષચરા ઘોરા ડાકિન્યશ્ચ મહાબલાઃ ।
ગ્રહભૂતપિશાચાશ્ચ યક્ષગંધર્વરાક્ષસાઃ ॥ 51 ॥

બ્રહ્મરાક્ષસવેતાલાઃ કૂષ્માંડા ભૈરવાદયઃ ।
નશ્યંતિ દર્શનાત્તસ્ય કવચે હૃદિ સંસ્થિતે ॥ 52 ॥

માનોન્નતિર્ભવેદ્રાજ્ઞસ્તેજોવૃદ્ધિકરં પરં ।
યશસા વર્ધતે સોઽપિ કીર્તિમંડિતભૂતલે ॥ 53 ॥

જપેત્સપ્તશતીં ચંડીં કૃત્વા તુ કવચં પુરા ।
યાવદ્ભૂમંડલં ધત્તે સશૈલવનકાનનમ્ ॥ 54 ॥

તાવત્તિષ્ઠતિ મેદિન્યાં સંતતિઃ પુત્રપૌત્રિકી ।
દેહાંતે પરમં સ્થાનં યત્સુરૈરપિ દુર્લભમ્ ॥ 55 ॥

પ્રાપ્નોતિ પુરુષો નિત્યં મહામાયાપ્રસાદતઃ ।
લભતે પરમં રૂપં શિવેન સહ મોદતે ॥ 56 ॥

॥ ઇતિ વારાહપુરાણે હરિહરબ્રહ્મ વિરચિતં દેવ્યાઃ કવચં સંપૂર્ણમ્ ॥

ଦେଵୀ ମହାତ୍ମ୍ଯମ୍ ଦେଵି କଵଚମ୍

ଓଂ ନମଶ୍ଚଂଡିକାଯୈ

ନ୍ଯାସଃ
ଅସ୍ଯ ଶ୍ରୀ ଚଂଡୀ କଵଚସ୍ଯ । ବ୍ରହ୍ମା ଋଷିଃ । ଅନୁଷ୍ଟୁପ୍ ଛଂଦଃ ।
ଚାମୁଂଡା ଦେଵତା । ଅଂଗନ୍ଯାସୋକ୍ତ ମାତରୋ ବୀଜମ୍ । ନଵାଵରଣୋ ମଂତ୍ରଶକ୍ତିଃ । ଦିଗ୍ବଂଧ ଦେଵତାଃ ତତ୍ଵଂ । ଶ୍ରୀ ଜଗଦଂବା ପ୍ରୀତ୍ଯର୍ଥେ ସପ୍ତଶତୀ ପାଠାଂଗତ୍ଵେନ ଜପେ ଵିନିଯୋଗଃ ॥

ଓଂ ନମଶ୍ଚଂଡିକାଯୈ

ମାର୍କଂଡେଯ ଉଵାଚ ।
ଓଂ ଯଦ୍ଗୁହ୍ଯଂ ପରମଂ ଲୋକେ ସର୍ଵରକ୍ଷାକରଂ ନୃଣାମ୍ ।
ଯନ୍ନ କସ୍ଯଚିଦାଖ୍ଯାତଂ ତନ୍ମେ ବ୍ରୂହି ପିତାମହ ॥ 1 ॥

ବ୍ରହ୍ମୋଵାଚ ।
ଅସ୍ତି ଗୁହ୍ଯତମଂ ଵିପ୍ର ସର୍ଵଭୂତୋପକାରକମ୍ ।
ଦେଵ୍ଯାସ୍ତୁ କଵଚଂ ପୁଣ୍ଯଂ ତଚ୍ଛୃଣୁଷ୍ଵ ମହାମୁନେ ॥ 2 ॥

ପ୍ରଥମଂ ଶୈଲପୁତ୍ରୀ ଚ ଦ୍ଵିତୀଯଂ ବ୍ରହ୍ମଚାରିଣୀ ।
ତୃତୀଯଂ ଚଂଦ୍ରଘଂଟେତି କୂଷ୍ମାଂଡେତି ଚତୁର୍ଥକମ୍ ॥ 3 ॥

ପଂଚମଂ ସ୍କଂଦମାତେତି ଷଷ୍ଠଂ କାତ୍ଯାଯନୀତି ଚ ।
ସପ୍ତମଂ କାଲରାତ୍ରୀତି ମହାଗୌରୀତି ଚାଷ୍ଟମମ୍ ॥ 4 ॥

ନଵମଂ ସିଦ୍ଧିଦାତ୍ରୀ ଚ ନଵଦୁର୍ଗାଃ ପ୍ରକୀର୍ତିତାଃ ।
ଉକ୍ତାନ୍ଯେତାନି ନାମାନି ବ୍ରହ୍ମଣୈଵ ମହାତ୍ମନା ॥ 5 ॥

ଅଗ୍ନିନା ଦହ୍ଯମାନସ୍ତୁ ଶତ୍ରୁମଧ୍ଯେ ଗତୋ ରଣେ ।
ଵିଷମେ ଦୁର୍ଗମେ ଚୈଵ ଭଯାର୍ତାଃ ଶରଣଂ ଗତାଃ ॥ 6 ॥

ନ ତେଷାଂ ଜାଯତେ କିଂଚିଦଶୁଭଂ ରଣସଂକଟେ ।
ନାପଦଂ ତସ୍ଯ ପଶ୍ଯାମି ଶୋକଦୁଃଖଭଯଂ ନ ହି ॥ 7 ॥

ଯୈସ୍ତୁ ଭକ୍ତ୍ଯା ସ୍ମୃତା ନୂନଂ ତେଷାଂ ଵୃଦ୍ଧିଃ ପ୍ରଜାଯତେ ।
ଯେ ତ୍ଵାଂ ସ୍ମରଂତି ଦେଵେଶି ରକ୍ଷସେ ତାନ୍ନସଂଶଯଃ ॥ 8 ॥

ପ୍ରେତସଂସ୍ଥା ତୁ ଚାମୁଂଡା ଵାରାହୀ ମହିଷାସନା ।
ଐଂଦ୍ରୀ ଗଜସମାରୂଢା ଵୈଷ୍ଣଵୀ ଗରୁଡାସନା ॥ 9 ॥

ମାହେଶ୍ଵରୀ ଵୃଷାରୂଢା କୌମାରୀ ଶିଖିଵାହନା ।
ଲକ୍ଷ୍ମୀଃ ପଦ୍ମାସନା ଦେଵୀ ପଦ୍ମହସ୍ତା ହରିପ୍ରିଯା ॥ 10 ॥

ଶ୍ଵେତରୂପଧରା ଦେଵୀ ଈଶ୍ଵରୀ ଵୃଷଵାହନା ।
ବ୍ରାହ୍ମୀ ହଂସସମାରୂଢା ସର୍ଵାଭରଣଭୂଷିତା ॥ 11 ॥

ଇତ୍ଯେତା ମାତରଃ ସର୍ଵାଃ ସର୍ଵଯୋଗସମନ୍ଵିତାଃ ।
ନାନାଭରଣାଶୋଭାଢ୍ଯା ନାନାରତ୍ନୋପଶୋଭିତାଃ ॥ 12 ॥

ଦୃଶ୍ଯଂତେ ରଥମାରୂଢା ଦେଵ୍ଯଃ କ୍ରୋଧସମାକୁଲାଃ ।
ଶଂଖଂ ଚକ୍ରଂ ଗଦାଂ ଶକ୍ତିଂ ହଲଂ ଚ ମୁସଲାଯୁଧମ୍ ॥ 13 ॥

ଖେଟକଂ ତୋମରଂ ଚୈଵ ପରଶୁଂ ପାଶମେଵ ଚ ।
କୁଂତାଯୁଧଂ ତ୍ରିଶୂଲଂ ଚ ଶାରଂଗମାଯୁଧମୁତ୍ତମମ୍ ॥ 14 ॥

ଦୈତ୍ଯାନାଂ ଦେହନାଶାଯ ଭକ୍ତାନାମଭଯାଯ ଚ ।
ଧାରଯଂତ୍ଯାଯୁଧାନୀତ୍ଥଂ ଦେଵାନାଂ ଚ ହିତାଯ ଵୈ ॥ 15 ॥

ନମସ୍ତେଽସ୍ତୁ ମହାରୌଦ୍ରେ ମହାଘୋରପରାକ୍ରମେ ।
ମହାବଲେ ମହୋତ୍ସାହେ ମହାଭଯଵିନାଶିନି ॥ 16 ॥

ତ୍ରାହି ମାଂ ଦେଵି ଦୁଷ୍ପ୍ରେକ୍ଷ୍ଯେ ଶତ୍ରୂଣାଂ ଭଯଵର୍ଧିନି ।
ପ୍ରାଚ୍ଯାଂ ରକ୍ଷତୁ ମାମୈଂଦ୍ରୀ ଆଗ୍ନେଯ୍ଯାମଗ୍ନିଦେଵତା ॥ 17 ॥

ଦକ୍ଷିଣେଽଵତୁ ଵାରାହୀ ନୈରୃତ୍ଯାଂ ଖଡ୍ଗଧାରିଣୀ ।
ପ୍ରତୀଚ୍ଯାଂ ଵାରୁଣୀ ରକ୍ଷେଦ୍ଵାଯଵ୍ଯାଂ ମୃଗଵାହିନୀ ॥ 18 ॥

ଉଦୀଚ୍ଯାଂ ପାତୁ କୌମାରୀ ଐଶାନ୍ଯାଂ ଶୂଲଧାରିଣୀ ।
ଊର୍ଧ୍ଵଂ ବ୍ରହ୍ମାଣୀ ମେ ରକ୍ଷେଦଧସ୍ତାଦ୍ଵୈଷ୍ଣଵୀ ତଥା ॥ 19 ॥

ଏଵଂ ଦଶ ଦିଶୋ ରକ୍ଷେଚ୍ଚାମୁଂଡା ଶଵଵାହନା ।
ଜଯା ମେ ଚାଗ୍ରତଃ ପାତୁ ଵିଜଯା ପାତୁ ପୃଷ୍ଠତଃ ॥ 20 ॥

ଅଜିତା ଵାମପାର୍ଶ୍ଵେ ତୁ ଦକ୍ଷିଣେ ଚାପରାଜିତା ।
ଶିଖାମୁଦ୍ଯୋତିନୀ ରକ୍ଷେଦୁମା ମୂର୍ଧ୍ନି ଵ୍ଯଵସ୍ଥିତା ॥ 21 ॥

ମାଲାଧରୀ ଲଲାଟେ ଚ ଭ୍ରୁଵୌ ରକ୍ଷେଦ୍ଯଶସ୍ଵିନୀ ।
ତ୍ରିନେତ୍ରା ଚ ଭ୍ରୁଵୋର୍ମଧ୍ଯେ ଯମଘଂଟା ଚ ନାସିକେ ॥ 22 ॥

ଶଂଖିନୀ ଚକ୍ଷୁଷୋର୍ମଧ୍ଯେ ଶ୍ରୋତ୍ରଯୋର୍ଦ୍ଵାରଵାସିନୀ ।
କପୋଲୌ କାଲିକା ରକ୍ଷେତ୍କର୍ଣମୂଲେ ତୁ ଶାଂକରୀ ॥ 23 ॥

ନାସିକାଯାଂ ସୁଗଂଧା ଚ ଉତ୍ତରୋଷ୍ଠେ ଚ ଚର୍ଚିକା ।
ଅଧରେ ଚାମୃତକଲା ଜିହ୍ଵାଯାଂ ଚ ସରସ୍ଵତୀ ॥ 24 ॥

ଦଂତାନ୍ ରକ୍ଷତୁ କୌମାରୀ କଂଠଦେଶେ ତୁ ଚଂଡିକା ।
ଘଂଟିକାଂ ଚିତ୍ରଘଂଟା ଚ ମହାମାଯା ଚ ତାଲୁକେ ॥ 25 ॥

କାମାକ୍ଷୀ ଚିବୁକଂ ରକ୍ଷେଦ୍ଵାଚଂ ମେ ସର୍ଵମଂଗଳା ।
ଗ୍ରୀଵାଯାଂ ଭଦ୍ରକାଳୀ ଚ ପୃଷ୍ଠଵଂଶେ ଧନୁର୍ଧରୀ ॥ 26 ॥

ନୀଲଗ୍ରୀଵା ବହିଃ କଂଠେ ନଲିକାଂ ନଲକୂବରୀ ।
ସ୍କଂଧଯୋଃ ଖଡ୍ଗିନୀ ରକ୍ଷେଦ୍ବାହୂ ମେ ଵଜ୍ରଧାରିଣୀ ॥ 27 ॥

ହସ୍ତଯୋର୍ଦଂଡିନୀ ରକ୍ଷେଦଂବିକା ଚାଂଗୁଲୀଷୁ ଚ ।
ନଖାଂଛୂଲେଶ୍ଵରୀ ରକ୍ଷେତ୍କୁକ୍ଷୌ ରକ୍ଷେତ୍କୁଲେଶ୍ଵରୀ ॥ 28 ॥

ସ୍ତନୌ ରକ୍ଷେନ୍ମହାଦେଵୀ ମନଃଶୋକଵିନାଶିନୀ ।
ହୃଦଯେ ଲଲିତା ଦେଵୀ ଉଦରେ ଶୂଲଧାରିଣୀ ॥ 29 ॥

ନାଭୌ ଚ କାମିନୀ ରକ୍ଷେଦ୍ଗୁହ୍ଯଂ ଗୁହ୍ଯେଶ୍ଵରୀ ତଥା ।
ପୂତନା କାମିକା ମେଢ୍ରଂ ଗୁଦେ ମହିଷଵାହିନୀ ॥ 30 ॥

କଟ୍ଯାଂ ଭଗଵତୀ ରକ୍ଷେଜ୍ଜାନୁନୀ ଵିଂଧ୍ଯଵାସିନୀ ।
ଜଂଘେ ମହାବଲା ରକ୍ଷେତ୍ସର୍ଵକାମପ୍ରଦାଯିନୀ ॥ 31 ॥

ଗୁଲ୍ଫଯୋର୍ନାରସିଂହୀ ଚ ପାଦପୃଷ୍ଠେ ତୁ ତୈଜସୀ ।
ପାଦାଂଗୁଲୀଷୁ ଶ୍ରୀ ରକ୍ଷେତ୍ପାଦାଧସ୍ତଲଵାସିନୀ ॥ 32 ॥

ନଖାନ୍ ଦଂଷ୍ଟ୍ରକରାଲୀ ଚ କେଶାଂଶ୍ଚୈଵୋର୍ଧ୍ଵକେଶିନୀ ।
ରୋମକୂପେଷୁ କୌବେରୀ ତ୍ଵଚଂ ଵାଗୀଶ୍ଵରୀ ତଥା ॥ 33 ॥

ରକ୍ତମଜ୍ଜାଵସାମାଂସାନ୍ଯସ୍ଥିମେଦାଂସି ପାର୍ଵତୀ ।
ଅଂତ୍ରାଣି କାଲରାତ୍ରିଶ୍ଚ ପିତ୍ତଂ ଚ ମୁକୁଟେଶ୍ଵରୀ ॥ 34 ॥

ପଦ୍ମାଵତୀ ପଦ୍ମକୋଶେ କଫେ ଚୂଡାମଣିସ୍ତଥା ।
ଜ୍ଵାଲାମୁଖୀ ନଖଜ୍ଵାଲାମଭେଦ୍ଯା ସର୍ଵସଂଧିଷୁ ॥ 35 ॥

ଶୁକ୍ରଂ ବ୍ରହ୍ମାଣି! ମେ ରକ୍ଷେଚ୍ଛାଯାଂ ଛତ୍ରେଶ୍ଵରୀ ତଥା ।
ଅହଂକାରଂ ମନୋ ବୁଦ୍ଧିଂ ରକ୍ଷେନ୍ମେ ଧର୍ମଧାରିଣୀ ॥ 36 ॥

ପ୍ରାଣାପାନୌ ତଥା ଵ୍ଯାନମୁଦାନଂ ଚ ସମାନକମ୍ ।
ଵଜ୍ରହସ୍ତା ଚ ମେ ରକ୍ଷେତ୍ପ୍ରାଣଂ କଲ୍ଯାଣଶୋଭନା ॥ 37 ॥

ରସେ ରୂପେ ଚ ଗଂଧେ ଚ ଶବ୍ଦେ ସ୍ପର୍ଶେ ଚ ଯୋଗିନୀ ।
ସତ୍ତ୍ଵଂ ରଜସ୍ତମଶ୍ଚୈଵ ରକ୍ଷେନ୍ନାରାଯଣୀ ସଦା ॥ 38 ॥

ଆଯୂ ରକ୍ଷତୁ ଵାରାହୀ ଧର୍ମଂ ରକ୍ଷତୁ ଵୈଷ୍ଣଵୀ ।
ଯଶଃ କୀର୍ତିଂ ଚ ଲକ୍ଷ୍ମୀଂ ଚ ଧନଂ ଵିଦ୍ଯାଂ ଚ ଚକ୍ରିଣୀ ॥ 39 ॥

ଗୋତ୍ରମିଂଦ୍ରାଣି! ମେ ରକ୍ଷେତ୍ପଶୂନ୍ମେ ରକ୍ଷ ଚଂଡିକେ ।
ପୁତ୍ରାନ୍ ରକ୍ଷେନ୍ମହାଲକ୍ଷ୍ମୀର୍ଭାର୍ଯାଂ ରକ୍ଷତୁ ଭୈରଵୀ ॥ 40 ॥

ପଂଥାନଂ ସୁପଥା ରକ୍ଷେନ୍ମାର୍ଗଂ କ୍ଷେମକରୀ ତଥା ।
ରାଜଦ୍ଵାରେ ମହାଲକ୍ଷ୍ମୀର୍ଵିଜଯା ସର୍ଵତଃ ସ୍ଥିତା ॥ 41 ॥

ରକ୍ଷାହୀନଂ ତୁ ଯତ୍-ସ୍ଥାନଂ ଵର୍ଜିତଂ କଵଚେନ ତୁ ।
ତତ୍ସର୍ଵଂ ରକ୍ଷ ମେ ଦେଵି! ଜଯଂତୀ ପାପନାଶିନୀ ॥ 42 ॥

ପଦମେକଂ ନ ଗଚ୍ଛେତ୍ତୁ ଯଦୀଚ୍ଛେଚ୍ଛୁଭମାତ୍ମନଃ ।
କଵଚେନାଵୃତୋ ନିତ୍ଯଂ ଯତ୍ର ଯତ୍ରୈଵ ଗଚ୍ଛତି ॥ 43 ॥

ତତ୍ର ତତ୍ରାର୍ଥଲାଭଶ୍ଚ ଵିଜଯଃ ସାର୍ଵକାମିକଃ ।
ଯଂ ଯଂ ଚିଂତଯତେ କାମଂ ତଂ ତଂ ପ୍ରାପ୍ନୋତି ନିଶ୍ଚିତମ୍ ॥ 44 ॥

ପରମୈଶ୍ଵର୍ଯମତୁଲଂ ପ୍ରାପ୍ସ୍ଯତେ ଭୂତଲେ ପୁମାନ୍ ।
ନିର୍ଭଯୋ ଜାଯତେ ମର୍ତ୍ଯଃ ସଂଗ୍ରାମେଷ୍ଵପରାଜିତଃ ॥ 45 ॥

ତ୍ରୈଲୋକ୍ଯେ ତୁ ଭଵେତ୍ପୂଜ୍ଯଃ କଵଚେନାଵୃତଃ ପୁମାନ୍ ।
ଇଦଂ ତୁ ଦେଵ୍ଯାଃ କଵଚଂ ଦେଵାନାମପି ଦୁର୍ଲଭମ୍ ॥ 46 ॥

ଯଃ ପଠେତ୍ପ୍ରଯତୋ ନିତ୍ଯଂ ତ୍ରିସଂଧ୍ଯଂ ଶ୍ରଦ୍ଧଯାନ୍ଵିତଃ ।
ଦୈଵୀକଲା ଭଵେତ୍ତସ୍ଯ ତ୍ରୈଲୋକ୍ଯେଷ୍ଵପରାଜିତଃ । 47 ॥

ଜୀଵେଦ୍ଵର୍ଷଶତଂ ସାଗ୍ରମପମୃତ୍ଯୁଵିଵର୍ଜିତଃ ।
ନଶ୍ଯଂତି ଵ୍ଯାଧଯଃ ସର୍ଵେ ଲୂତାଵିସ୍ଫୋଟକାଦଯଃ ॥ 48 ॥

ସ୍ଥାଵରଂ ଜଂଗମଂ ଚୈଵ କୃତ୍ରିମଂ ଚୈଵ ଯଦ୍ଵିଷମ୍ ।
ଅଭିଚାରାଣି ସର୍ଵାଣି ମଂତ୍ରଯଂତ୍ରାଣି ଭୂତଲେ ॥ 49 ॥

ଭୂଚରାଃ ଖେଚରାଶ୍ଚୈଵ ଜୁଲଜାଶ୍ଚୋପଦେଶିକାଃ ।
ସହଜା କୁଲଜା ମାଲା ଡାକିନୀ ଶାକିନୀ ତଥା ॥ 50 ॥

ଅଂତରିକ୍ଷଚରା ଘୋରା ଡାକିନ୍ଯଶ୍ଚ ମହାବଲାଃ ।
ଗ୍ରହଭୂତପିଶାଚାଶ୍ଚ ଯକ୍ଷଗଂଧର୍ଵରାକ୍ଷସାଃ ॥ 51 ॥

ବ୍ରହ୍ମରାକ୍ଷସଵେତାଲାଃ କୂଷ୍ମାଂଡା ଭୈରଵାଦଯଃ ।
ନଶ୍ଯଂତି ଦର୍ଶନାତ୍ତସ୍ଯ କଵଚେ ହୃଦି ସଂସ୍ଥିତେ ॥ 52 ॥

ମାନୋନ୍ନତିର୍ଭଵେଦ୍ରାଜ୍ଞସ୍ତେଜୋଵୃଦ୍ଧିକରଂ ପରଂ ।
ଯଶସା ଵର୍ଧତେ ସୋଽପି କୀର୍ତିମଂଡିତଭୂତଲେ ॥ 53 ॥

ଜପେତ୍ସପ୍ତଶତୀଂ ଚଂଡୀଂ କୃତ୍ଵା ତୁ କଵଚଂ ପୁରା ।
ଯାଵଦ୍ଭୂମଂଡଲଂ ଧତ୍ତେ ସଶୈଲଵନକାନନମ୍ ॥ 54 ॥

ତାଵତ୍ତିଷ୍ଠତି ମେଦିନ୍ଯାଂ ସଂତତିଃ ପୁତ୍ରପୌତ୍ରିକୀ ।
ଦେହାଂତେ ପରମଂ ସ୍ଥାନଂ ଯତ୍ସୁରୈରପି ଦୁର୍ଲଭମ୍ ॥ 55 ॥

ପ୍ରାପ୍ନୋତି ପୁରୁଷୋ ନିତ୍ଯଂ ମହାମାଯାପ୍ରସାଦତଃ ।
ଲଭତେ ପରମଂ ରୂପଂ ଶିଵେନ ସହ ମୋଦତେ ॥ 56 ॥

॥ ଇତି ଵାରାହପୁରାଣେ ହରିହରବ୍ରହ୍ମ ଵିରଚିତଂ ଦେଵ୍ଯାଃ କଵଚଂ ସଂପୂର୍ଣମ୍ ॥


দেবী মহাত্ম্যম্ দেবি কবচম্

ওং নমশ্চংডিকাযৈ

ন্যাসঃ
অস্য শ্রী চংডী কবচস্য । ব্রহ্মা ঋষিঃ । অনুষ্টুপ্ ছংদঃ ।
চামুংডা দেবতা । অংগন্যাসোক্ত মাতরো বীজম্ । নবাবরণো মংত্রশক্তিঃ । দিগ্বংধ দেবতাঃ তত্বং । শ্রী জগদংবা প্রীত্যর্থে সপ্তশতী পাঠাংগত্বেন জপে বিনিযোগঃ ॥

ওং নমশ্চংডিকাযৈ

মার্কংডেয উবাচ ।
ওং যদ্গুহ্যং পরমং লোকে সর্বরক্ষাকরং নৃণাম্ ।
যন্ন কস্যচিদাখ্যাতং তন্মে ব্রূহি পিতামহ ॥ 1 ॥

ব্রহ্মোবাচ ।
অস্তি গুহ্যতমং বিপ্র সর্বভূতোপকারকম্ ।
দেব্যাস্তু কবচং পুণ্যং তচ্ছৃণুষ্ব মহামুনে ॥ 2 ॥

প্রথমং শৈলপুত্রী চ দ্বিতীযং ব্রহ্মচারিণী ।
তৃতীযং চংদ্রঘংটেতি কূষ্মাংডেতি চতুর্থকম্ ॥ 3 ॥

পংচমং স্কংদমাতেতি ষষ্ঠং কাত্যাযনীতি চ ।
সপ্তমং কালরাত্রীতি মহাগৌরীতি চাষ্টমম্ ॥ 4 ॥

নবমং সিদ্ধিদাত্রী চ নবদুর্গাঃ প্রকীর্তিতাঃ ।
উক্তান্যেতানি নামানি ব্রহ্মণৈব মহাত্মনা ॥ 5 ॥

অগ্নিনা দহ্যমানস্তু শত্রুমধ্যে গতো রণে ।
বিষমে দুর্গমে চৈব ভযার্তাঃ শরণং গতাঃ ॥ 6 ॥

ন তেষাং জাযতে কিংচিদশুভং রণসংকটে ।
নাপদং তস্য পশ্যামি শোকদুঃখভযং ন হি ॥ 7 ॥

যৈস্তু ভক্ত্যা স্মৃতা নূনং তেষাং বৃদ্ধিঃ প্রজাযতে ।
যে ত্বাং স্মরংতি দেবেশি রক্ষসে তান্নসংশযঃ ॥ 8 ॥

প্রেতসংস্থা তু চামুংডা বারাহী মহিষাসনা ।
ঐংদ্রী গজসমারূঢা বৈষ্ণবী গরুডাসনা ॥ 9 ॥

মাহেশ্বরী বৃষারূঢা কৌমারী শিখিবাহনা ।
লক্ষ্মীঃ পদ্মাসনা দেবী পদ্মহস্তা হরিপ্রিযা ॥ 10 ॥

শ্বেতরূপধরা দেবী ঈশ্বরী বৃষবাহনা ।
ব্রাহ্মী হংসসমারূঢা সর্বাভরণভূষিতা ॥ 11 ॥

ইত্যেতা মাতরঃ সর্বাঃ সর্বযোগসমন্বিতাঃ ।
নানাভরণাশোভাঢ্যা নানারত্নোপশোভিতাঃ ॥ 12 ॥

দৃশ্যংতে রথমারূঢা দেব্যঃ ক্রোধসমাকুলাঃ ।
শংখং চক্রং গদাং শক্তিং হলং চ মুসলাযুধম্ ॥ 13 ॥

খেটকং তোমরং চৈব পরশুং পাশমেব চ ।
কুংতাযুধং ত্রিশূলং চ শারংগমাযুধমুত্তমম্ ॥ 14 ॥

দৈত্যানাং দেহনাশায ভক্তানামভযায চ ।
ধারযংত্যাযুধানীত্থং দেবানাং চ হিতায বৈ ॥ 15 ॥

নমস্তেঽস্তু মহারৌদ্রে মহাঘোরপরাক্রমে ।
মহাবলে মহোত্সাহে মহাভযবিনাশিনি ॥ 16 ॥

ত্রাহি মাং দেবি দুষ্প্রেক্ষ্যে শত্রূণাং ভযবর্ধিনি ।
প্রাচ্যাং রক্ষতু মামৈংদ্রী আগ্নেয্যামগ্নিদেবতা ॥ 17 ॥

দক্ষিণেঽবতু বারাহী নৈরৃত্যাং খড্গধারিণী ।
প্রতীচ্যাং বারুণী রক্ষেদ্বাযব্যাং মৃগবাহিনী ॥ 18 ॥

উদীচ্যাং পাতু কৌমারী ঐশান্যাং শূলধারিণী ।
ঊর্ধ্বং ব্রহ্মাণী মে রক্ষেদধস্তাদ্বৈষ্ণবী তথা ॥ 19 ॥

এবং দশ দিশো রক্ষেচ্চামুংডা শববাহনা ।
জযা মে চাগ্রতঃ পাতু বিজযা পাতু পৃষ্ঠতঃ ॥ 20 ॥

অজিতা বামপার্শ্বে তু দক্ষিণে চাপরাজিতা ।
শিখামুদ্যোতিনী রক্ষেদুমা মূর্ধ্নি ব্যবস্থিতা ॥ 21 ॥

মালাধরী ললাটে চ ভ্রুবৌ রক্ষেদ্যশস্বিনী ।
ত্রিনেত্রা চ ভ্রুবোর্মধ্যে যমঘংটা চ নাসিকে ॥ 22 ॥

শংখিনী চক্ষুষোর্মধ্যে শ্রোত্রযোর্দ্বারবাসিনী ।
কপোলৌ কালিকা রক্ষেত্কর্ণমূলে তু শাংকরী ॥ 23 ॥

নাসিকাযাং সুগংধা চ উত্তরোষ্ঠে চ চর্চিকা ।
অধরে চামৃতকলা জিহ্বাযাং চ সরস্বতী ॥ 24 ॥

দংতান্ রক্ষতু কৌমারী কংঠদেশে তু চংডিকা ।
ঘংটিকাং চিত্রঘংটা চ মহামাযা চ তালুকে ॥ 25 ॥

কামাক্ষী চিবুকং রক্ষেদ্বাচং মে সর্বমংগলা ।
গ্রীবাযাং ভদ্রকালী চ পৃষ্ঠবংশে ধনুর্ধরী ॥ 26 ॥

নীলগ্রীবা বহিঃ কংঠে নলিকাং নলকূবরী ।
স্কংধযোঃ খড্গিনী রক্ষেদ্বাহূ মে বজ্রধারিণী ॥ 27 ॥

হস্তযোর্দংডিনী রক্ষেদংবিকা চাংগুলীষু চ ।
নখাংছূলেশ্বরী রক্ষেত্কুক্ষৌ রক্ষেত্কুলেশ্বরী ॥ 28 ॥

স্তনৌ রক্ষেন্মহাদেবী মনঃশোকবিনাশিনী ।
হৃদযে ললিতা দেবী উদরে শূলধারিণী ॥ 29 ॥

নাভৌ চ কামিনী রক্ষেদ্গুহ্যং গুহ্যেশ্বরী তথা ।
পূতনা কামিকা মেঢ্রং গুদে মহিষবাহিনী ॥ 30 ॥

কট্যাং ভগবতী রক্ষেজ্জানুনী বিংধ্যবাসিনী ।
জংঘে মহাবলা রক্ষেত্সর্বকামপ্রদাযিনী ॥ 31 ॥

গুল্ফযোর্নারসিংহী চ পাদপৃষ্ঠে তু তৈজসী ।
পাদাংগুলীষু শ্রী রক্ষেত্পাদাধস্তলবাসিনী ॥ 32 ॥

নখান্ দংষ্ট্রকরালী চ কেশাংশ্চৈবোর্ধ্বকেশিনী ।
রোমকূপেষু কৌবেরী ত্বচং বাগীশ্বরী তথা ॥ 33 ॥

রক্তমজ্জাবসামাংসান্যস্থিমেদাংসি পার্বতী ।
অংত্রাণি কালরাত্রিশ্চ পিত্তং চ মুকুটেশ্বরী ॥ 34 ॥

পদ্মাবতী পদ্মকোশে কফে চূডামণিস্তথা ।
জ্বালামুখী নখজ্বালামভেদ্যা সর্বসংধিষু ॥ 35 ॥

শুক্রং ব্রহ্মাণি! মে রক্ষেচ্ছাযাং ছত্রেশ্বরী তথা ।
অহংকারং মনো বুদ্ধিং রক্ষেন্মে ধর্মধারিণী ॥ 36 ॥

প্রাণাপানৌ তথা ব্যানমুদানং চ সমানকম্ ।
বজ্রহস্তা চ মে রক্ষেত্প্রাণং কল্যাণশোভনা ॥ 37 ॥

রসে রূপে চ গংধে চ শব্দে স্পর্শে চ যোগিনী ।
সত্ত্বং রজস্তমশ্চৈব রক্ষেন্নারাযণী সদা ॥ 38 ॥

আযূ রক্ষতু বারাহী ধর্মং রক্ষতু বৈষ্ণবী ।
যশঃ কীর্তিং চ লক্ষ্মীং চ ধনং বিদ্যাং চ চক্রিণী ॥ 39 ॥

গোত্রমিংদ্রাণি! মে রক্ষেত্পশূন্মে রক্ষ চংডিকে ।
পুত্রান্ রক্ষেন্মহালক্ষ্মীর্ভার্যাং রক্ষতু ভৈরবী ॥ 40 ॥

পংথানং সুপথা রক্ষেন্মার্গং ক্ষেমকরী তথা ।
রাজদ্বারে মহালক্ষ্মীর্বিজযা সর্বতঃ স্থিতা ॥ 41 ॥

রক্ষাহীনং তু যত্-স্থানং বর্জিতং কবচেন তু ।
তত্সর্বং রক্ষ মে দেবি! জযংতী পাপনাশিনী ॥ 42 ॥

পদমেকং ন গচ্ছেত্তু যদীচ্ছেচ্ছুভমাত্মনঃ ।
কবচেনাবৃতো নিত্যং যত্র যত্রৈব গচ্ছতি ॥ 43 ॥

তত্র তত্রার্থলাভশ্চ বিজযঃ সার্বকামিকঃ ।
যং যং চিংতযতে কামং তং তং প্রাপ্নোতি নিশ্চিতম্ ॥ 44 ॥

পরমৈশ্বর্যমতুলং প্রাপ্স্যতে ভূতলে পুমান্ ।
নির্ভযো জাযতে মর্ত্যঃ সংগ্রামেষ্বপরাজিতঃ ॥ 45 ॥

ত্রৈলোক্যে তু ভবেত্পূজ্যঃ কবচেনাবৃতঃ পুমান্ ।
ইদং তু দেব্যাঃ কবচং দেবানামপি দুর্লভম্ ॥ 46 ॥

যঃ পঠেত্প্রযতো নিত্যং ত্রিসংধ্যং শ্রদ্ধযান্বিতঃ ।
দৈবীকলা ভবেত্তস্য ত্রৈলোক্যেষ্বপরাজিতঃ । 47 ॥

জীবেদ্বর্ষশতং সাগ্রমপমৃত্যুবিবর্জিতঃ ।
নশ্যংতি ব্যাধযঃ সর্বে লূতাবিস্ফোটকাদযঃ ॥ 48 ॥

স্থাবরং জংগমং চৈব কৃত্রিমং চৈব যদ্বিষম্ ।
অভিচারাণি সর্বাণি মংত্রযংত্রাণি ভূতলে ॥ 49 ॥

ভূচরাঃ খেচরাশ্চৈব জুলজাশ্চোপদেশিকাঃ ।
সহজা কুলজা মালা ডাকিনী শাকিনী তথা ॥ 50 ॥

অংতরিক্ষচরা ঘোরা ডাকিন্যশ্চ মহাবলাঃ ।
গ্রহভূতপিশাচাশ্চ যক্ষগংধর্বরাক্ষসাঃ ॥ 51 ॥

ব্রহ্মরাক্ষসবেতালাঃ কূষ্মাংডা ভৈরবাদযঃ ।
নশ্যংতি দর্শনাত্তস্য কবচে হৃদি সংস্থিতে ॥ 52 ॥

মানোন্নতির্ভবেদ্রাজ্ঞস্তেজোবৃদ্ধিকরং পরং ।
যশসা বর্ধতে সোঽপি কীর্তিমংডিতভূতলে ॥ 53 ॥

জপেত্সপ্তশতীং চংডীং কৃত্বা তু কবচং পুরা ।
যাবদ্ভূমংডলং ধত্তে সশৈলবনকাননম্ ॥ 54 ॥

তাবত্তিষ্ঠতি মেদিন্যাং সংততিঃ পুত্রপৌত্রিকী ।
দেহাংতে পরমং স্থানং যত্সুরৈরপি দুর্লভম্ ॥ 55 ॥

প্রাপ্নোতি পুরুষো নিত্যং মহামাযাপ্রসাদতঃ ।
লভতে পরমং রূপং শিবেন সহ মোদতে ॥ 56 ॥

॥ ইতি বারাহপুরাণে হরিহরব্রহ্ম বিরচিতং দেব্যাঃ কবচং সংপূর্ণম্ ॥


ਦੇਵੀ ਮਹਾਤ੍ਮ੍ਯਮ੍ ਦੇਵਿ ਕਵਚਮ੍

ਓਂ ਨਮਸ਼੍ਚਂਡਿਕਾਯੈ

ਨ੍ਯਾਸਃ
ਅਸ੍ਯ ਸ਼੍ਰੀ ਚਂਡੀ ਕਵਚਸ੍ਯ । ਬ੍ਰਹ੍ਮਾ ਰੁਰੁਇਸ਼ਿਃ । ਅਨੁਸ਼੍ਟੁਪ੍ ਛਂਦਃ ।
ਚਾਮੁਂਡਾ ਦੇਵਤਾ । ਅਂਗਨ੍ਯਾਸੋਕ੍ਤ ਮਾਤਰੋ ਬੀਜਮ੍ । ਨਵਾਵਰਣੋ ਮਂਤ੍ਰਸ਼ਕ੍ਤਿਃ । ਦਿਗ੍ਬਂਧ ਦੇਵਤਾਃ ਤਤ੍ਵਂ । ਸ਼੍ਰੀ ਜਗਦਂਬਾ ਪ੍ਰੀਤ੍ਯਰ੍ਥੇ ਸਪ੍ਤਸ਼ਤੀ ਪਾਠਾਂਗਤ੍ਵੇਨ ਜਪੇ ਵਿਨਿਯੋਗਃ ॥

ਓਂ ਨਮਸ਼੍ਚਂਡਿਕਾਯੈ

ਮਾਰ੍ਕਂਡੇਯ ਉਵਾਚ ।
ਓਂ ਯਦ੍ਗੁਹ੍ਯਂ ਪਰਮਂ ਲੋਕੇ ਸਰ੍ਵਰਕ੍ਸ਼ਾਕਰਂ ਨ੍ਰੁਰੁਇਣਾਮ੍ ।
ਯਨ੍ਨ ਕਸ੍ਯਚਿਦਾਖ੍ਯਾਤਂ ਤਨ੍ਮੇ ਬ੍ਰੂਹਿ ਪਿਤਾਮਹ ॥ 1 ॥

ਬ੍ਰਹ੍ਮੋਵਾਚ ।
ਅਸ੍ਤਿ ਗੁਹ੍ਯਤਮਂ ਵਿਪ੍ਰ ਸਰ੍ਵਭੂਤੋਪਕਾਰਕਮ੍ ।
ਦੇਵ੍ਯਾਸ੍ਤੁ ਕਵਚਂ ਪੁਣ੍ਯਂ ਤਚ੍ਛ੍ਰੁਰੁਇਣੁਸ਼੍ਵ ਮਹਾਮੁਨੇ ॥ 2 ॥

ਪ੍ਰਥਮਂ ਸ਼ੈਲਪੁਤ੍ਰੀ ਚ ਦ੍ਵਿਤੀਯਂ ਬ੍ਰਹ੍ਮਚਾਰਿਣੀ ।
ਤ੍ਰੁਰੁਇਤੀਯਂ ਚਂਦ੍ਰਘਂਟੇਤਿ ਕੂਸ਼੍ਮਾਂਡੇਤਿ ਚਤੁਰ੍ਥਕਮ੍ ॥ 3 ॥

ਪਂਚਮਂ ਸ੍ਕਂਦਮਾਤੇਤਿ ਸ਼ਸ਼੍ਠਂ ਕਾਤ੍ਯਾਯਨੀਤਿ ਚ ।
ਸਪ੍ਤਮਂ ਕਾਲਰਾਤ੍ਰੀਤਿ ਮਹਾਗੌਰੀਤਿ ਚਾਸ਼੍ਟਮਮ੍ ॥ 4 ॥

ਨਵਮਂ ਸਿਦ੍ਧਿਦਾਤ੍ਰੀ ਚ ਨਵਦੁਰ੍ਗਾਃ ਪ੍ਰਕੀਰ੍ਤਿਤਾਃ ।
ਉਕ੍ਤਾਨ੍ਯੇਤਾਨਿ ਨਾਮਾਨਿ ਬ੍ਰਹ੍ਮਣੈਵ ਮਹਾਤ੍ਮਨਾ ॥ 5 ॥

ਅਗ੍ਨਿਨਾ ਦਹ੍ਯਮਾਨਸ੍ਤੁ ਸ਼ਤ੍ਰੁਮਧ੍ਯੇ ਗਤੋ ਰਣੇ ।
ਵਿਸ਼ਮੇ ਦੁਰ੍ਗਮੇ ਚੈਵ ਭਯਾਰ੍ਤਾਃ ਸ਼ਰਣਂ ਗਤਾਃ ॥ 6 ॥

ਨ ਤੇਸ਼ਾਂ ਜਾਯਤੇ ਕਿਂਚਿਦਸ਼ੁਭਂ ਰਣਸਂਕਟੇ ।
ਨਾਪਦਂ ਤਸ੍ਯ ਪਸ਼੍ਯਾਮਿ ਸ਼ੋਕਦੁਃਖਭਯਂ ਨ ਹਿ ॥ 7 ॥

ਯੈਸ੍ਤੁ ਭਕ੍ਤ੍ਯਾ ਸ੍ਮ੍ਰੁਰੁਇਤਾ ਨੂਨਂ ਤੇਸ਼ਾਂ ਵ੍ਰੁਰੁਇਦ੍ਧਿਃ ਪ੍ਰਜਾਯਤੇ ।
ਯੇ ਤ੍ਵਾਂ ਸ੍ਮਰਂਤਿ ਦੇਵੇਸ਼ਿ ਰਕ੍ਸ਼ਸੇ ਤਾਨ੍ਨਸਂਸ਼ਯਃ ॥ 8 ॥

ਪ੍ਰੇਤਸਂਸ੍ਥਾ ਤੁ ਚਾਮੁਂਡਾ ਵਾਰਾਹੀ ਮਹਿਸ਼ਾਸਨਾ ।
ਐਂਦ੍ਰੀ ਗਜਸਮਾਰੂਢਾ ਵੈਸ਼੍ਣਵੀ ਗਰੁਡਾਸਨਾ ॥ 9 ॥

ਮਾਹੇਸ਼੍ਵਰੀ ਵ੍ਰੁਰੁਇਸ਼ਾਰੂਢਾ ਕੌਮਾਰੀ ਸ਼ਿਖਿਵਾਹਨਾ ।
ਲਕ੍ਸ਼੍ਮੀਃ ਪਦ੍ਮਾਸਨਾ ਦੇਵੀ ਪਦ੍ਮਹਸ੍ਤਾ ਹਰਿਪ੍ਰਿਯਾ ॥ 10 ॥

ਸ਼੍ਵੇਤਰੂਪਧਰਾ ਦੇਵੀ ਈਸ਼੍ਵਰੀ ਵ੍ਰੁਰੁਇਸ਼ਵਾਹਨਾ ।
ਬ੍ਰਾਹ੍ਮੀ ਹਂਸਸਮਾਰੂਢਾ ਸਰ੍ਵਾਭਰਣਭੂਸ਼ਿਤਾ ॥ 11 ॥

ਇਤ੍ਯੇਤਾ ਮਾਤਰਃ ਸਰ੍ਵਾਃ ਸਰ੍ਵਯੋਗਸਮਨ੍ਵਿਤਾਃ ।
ਨਾਨਾਭਰਣਾਸ਼ੋਭਾਢ੍ਯਾ ਨਾਨਾਰਤ੍ਨੋਪਸ਼ੋਭਿਤਾਃ ॥ 12 ॥

ਦ੍ਰੁਰੁਇਸ਼੍ਯਂਤੇ ਰਥਮਾਰੂਢਾ ਦੇਵ੍ਯਃ ਕ੍ਰੋਧਸਮਾਕੁਲਾਃ ।
ਸ਼ਂਖਂ ਚਕ੍ਰਂ ਗਦਾਂ ਸ਼ਕ੍ਤਿਂ ਹਲਂ ਚ ਮੁਸਲਾਯੁਧਮ੍ ॥ 13 ॥

ਖੇਟਕਂ ਤੋਮਰਂ ਚੈਵ ਪਰਸ਼ੁਂ ਪਾਸ਼ਮੇਵ ਚ ।
ਕੁਂਤਾਯੁਧਂ ਤ੍ਰਿਸ਼ੂਲਂ ਚ ਸ਼ਾਰਂਗਮਾਯੁਧਮੁਤ੍ਤਮਮ੍ ॥ 14 ॥

ਦੈਤ੍ਯਾਨਾਂ ਦੇਹਨਾਸ਼ਾਯ ਭਕ੍ਤਾਨਾਮਭਯਾਯ ਚ ।
ਧਾਰਯਂਤ੍ਯਾਯੁਧਾਨੀਤ੍ਥਂ ਦੇਵਾਨਾਂ ਚ ਹਿਤਾਯ ਵੈ ॥ 15 ॥

ਨਮਸ੍ਤੇ਽ਸ੍ਤੁ ਮਹਾਰੌਦ੍ਰੇ ਮਹਾਘੋਰਪਰਾਕ੍ਰਮੇ ।
ਮਹਾਬਲੇ ਮਹੋਤ੍ਸਾਹੇ ਮਹਾਭਯਵਿਨਾਸ਼ਿਨਿ ॥ 16 ॥

ਤ੍ਰਾਹਿ ਮਾਂ ਦੇਵਿ ਦੁਸ਼੍ਪ੍ਰੇਕ੍ਸ਼੍ਯੇ ਸ਼ਤ੍ਰੂਣਾਂ ਭਯਵਰ੍ਧਿਨਿ ।
ਪ੍ਰਾਚ੍ਯਾਂ ਰਕ੍ਸ਼ਤੁ ਮਾਮੈਂਦ੍ਰੀ ਆਗ੍ਨੇਯ੍ਯਾਮਗ੍ਨਿਦੇਵਤਾ ॥ 17 ॥

ਦਕ੍ਸ਼ਿਣੇ਽ਵਤੁ ਵਾਰਾਹੀ ਨੈਰ੍ਰੁਰੁਇਤ੍ਯਾਂ ਖਡ੍ਗਧਾਰਿਣੀ ।
ਪ੍ਰਤੀਚ੍ਯਾਂ ਵਾਰੁਣੀ ਰਕ੍ਸ਼ੇਦ੍ਵਾਯਵ੍ਯਾਂ ਮ੍ਰੁਰੁਇਗਵਾਹਿਨੀ ॥ 18 ॥

ਉਦੀਚ੍ਯਾਂ ਪਾਤੁ ਕੌਮਾਰੀ ਐਸ਼ਾਨ੍ਯਾਂ ਸ਼ੂਲਧਾਰਿਣੀ ।
ਊਰ੍ਧ੍ਵਂ ਬ੍ਰਹ੍ਮਾਣੀ ਮੇ ਰਕ੍ਸ਼ੇਦਧਸ੍ਤਾਦ੍ਵੈਸ਼੍ਣਵੀ ਤਥਾ ॥ 19 ॥

ਏਵਂ ਦਸ਼ ਦਿਸ਼ੋ ਰਕ੍ਸ਼ੇਚ੍ਚਾਮੁਂਡਾ ਸ਼ਵਵਾਹਨਾ ।
ਜਯਾ ਮੇ ਚਾਗ੍ਰਤਃ ਪਾਤੁ ਵਿਜਯਾ ਪਾਤੁ ਪ੍ਰੁਰੁਇਸ਼੍ਠਤਃ ॥ 20 ॥

ਅਜਿਤਾ ਵਾਮਪਾਰ੍ਸ਼੍ਵੇ ਤੁ ਦਕ੍ਸ਼ਿਣੇ ਚਾਪਰਾਜਿਤਾ ।
ਸ਼ਿਖਾਮੁਦ੍ਯੋਤਿਨੀ ਰਕ੍ਸ਼ੇਦੁਮਾ ਮੂਰ੍ਧ੍ਨਿ ਵ੍ਯਵਸ੍ਥਿਤਾ ॥ 21 ॥

ਮਾਲਾਧਰੀ ਲਲਾਟੇ ਚ ਭ੍ਰੁਵੌ ਰਕ੍ਸ਼ੇਦ੍ਯਸ਼ਸ੍ਵਿਨੀ ।
ਤ੍ਰਿਨੇਤ੍ਰਾ ਚ ਭ੍ਰੁਵੋਰ੍ਮਧ੍ਯੇ ਯਮਘਂਟਾ ਚ ਨਾਸਿਕੇ ॥ 22 ॥

ਸ਼ਂਖਿਨੀ ਚਕ੍ਸ਼ੁਸ਼ੋਰ੍ਮਧ੍ਯੇ ਸ਼੍ਰੋਤ੍ਰਯੋਰ੍ਦ੍ਵਾਰਵਾਸਿਨੀ ।
ਕਪੋਲੌ ਕਾਲਿਕਾ ਰਕ੍ਸ਼ੇਤ੍ਕਰ੍ਣਮੂਲੇ ਤੁ ਸ਼ਾਂਕਰੀ ॥ 23 ॥

ਨਾਸਿਕਾਯਾਂ ਸੁਗਂਧਾ ਚ ਉਤ੍ਤਰੋਸ਼੍ਠੇ ਚ ਚਰ੍ਚਿਕਾ ।
ਅਧਰੇ ਚਾਮ੍ਰੁਰੁਇਤਕਲਾ ਜਿਹ੍ਵਾਯਾਂ ਚ ਸਰਸ੍ਵਤੀ ॥ 24 ॥

ਦਂਤਾਨ੍ ਰਕ੍ਸ਼ਤੁ ਕੌਮਾਰੀ ਕਂਠਦੇਸ਼ੇ ਤੁ ਚਂਡਿਕਾ ।
ਘਂਟਿਕਾਂ ਚਿਤ੍ਰਘਂਟਾ ਚ ਮਹਾਮਾਯਾ ਚ ਤਾਲੁਕੇ ॥ 25 ॥

ਕਾਮਾਕ੍ਸ਼ੀ ਚਿਬੁਕਂ ਰਕ੍ਸ਼ੇਦ੍ਵਾਚਂ ਮੇ ਸਰ੍ਵਮਂਗਲ਼ਾ ।
ਗ੍ਰੀਵਾਯਾਂ ਭਦ੍ਰਕਾਲ਼ੀ ਚ ਪ੍ਰੁਰੁਇਸ਼੍ਠਵਂਸ਼ੇ ਧਨੁਰ੍ਧਰੀ ॥ 26 ॥

ਨੀਲਗ੍ਰੀਵਾ ਬਹਿਃ ਕਂਠੇ ਨਲਿਕਾਂ ਨਲਕੂਬਰੀ ।
ਸ੍ਕਂਧਯੋਃ ਖਡ੍ਗਿਨੀ ਰਕ੍ਸ਼ੇਦ੍ਬਾਹੂ ਮੇ ਵਜ੍ਰਧਾਰਿਣੀ ॥ 27 ॥

ਹਸ੍ਤਯੋਰ੍ਦਂਡਿਨੀ ਰਕ੍ਸ਼ੇਦਂਬਿਕਾ ਚਾਂਗੁਲੀਸ਼ੁ ਚ ।
ਨਖਾਂਛੂਲੇਸ਼੍ਵਰੀ ਰਕ੍ਸ਼ੇਤ੍ਕੁਕ੍ਸ਼ੌ ਰਕ੍ਸ਼ੇਤ੍ਕੁਲੇਸ਼੍ਵਰੀ ॥ 28 ॥

ਸ੍ਤਨੌ ਰਕ੍ਸ਼ੇਨ੍ਮਹਾਦੇਵੀ ਮਨਃਸ਼ੋਕਵਿਨਾਸ਼ਿਨੀ ।
ਹ੍ਰੁਰੁਇਦਯੇ ਲਲਿਤਾ ਦੇਵੀ ਉਦਰੇ ਸ਼ੂਲਧਾਰਿਣੀ ॥ 29 ॥

ਨਾਭੌ ਚ ਕਾਮਿਨੀ ਰਕ੍ਸ਼ੇਦ੍ਗੁਹ੍ਯਂ ਗੁਹ੍ਯੇਸ਼੍ਵਰੀ ਤਥਾ ।
ਪੂਤਨਾ ਕਾਮਿਕਾ ਮੇਢ੍ਰਂ ਗੁਦੇ ਮਹਿਸ਼ਵਾਹਿਨੀ ॥ 30 ॥

ਕਟ੍ਯਾਂ ਭਗਵਤੀ ਰਕ੍ਸ਼ੇਜ੍ਜਾਨੁਨੀ ਵਿਂਧ੍ਯਵਾਸਿਨੀ ।
ਜਂਘੇ ਮਹਾਬਲਾ ਰਕ੍ਸ਼ੇਤ੍ਸਰ੍ਵਕਾਮਪ੍ਰਦਾਯਿਨੀ ॥ 31 ॥

ਗੁਲ੍ਫਯੋਰ੍ਨਾਰਸਿਂਹੀ ਚ ਪਾਦਪ੍ਰੁਰੁਇਸ਼੍ਠੇ ਤੁ ਤੈਜਸੀ ।
ਪਾਦਾਂਗੁਲੀਸ਼ੁ ਸ਼੍ਰੀ ਰਕ੍ਸ਼ੇਤ੍ਪਾਦਾਧਸ੍ਤਲਵਾਸਿਨੀ ॥ 32 ॥

ਨਖਾਨ੍ ਦਂਸ਼੍ਟ੍ਰਕਰਾਲੀ ਚ ਕੇਸ਼ਾਂਸ਼੍ਚੈਵੋਰ੍ਧ੍ਵਕੇਸ਼ਿਨੀ ।
ਰੋਮਕੂਪੇਸ਼ੁ ਕੌਬੇਰੀ ਤ੍ਵਚਂ ਵਾਗੀਸ਼੍ਵਰੀ ਤਥਾ ॥ 33 ॥

ਰਕ੍ਤਮਜ੍ਜਾਵਸਾਮਾਂਸਾਨ੍ਯਸ੍ਥਿਮੇਦਾਂਸਿ ਪਾਰ੍ਵਤੀ ।
ਅਂਤ੍ਰਾਣਿ ਕਾਲਰਾਤ੍ਰਿਸ਼੍ਚ ਪਿਤ੍ਤਂ ਚ ਮੁਕੁਟੇਸ਼੍ਵਰੀ ॥ 34 ॥

ਪਦ੍ਮਾਵਤੀ ਪਦ੍ਮਕੋਸ਼ੇ ਕਫੇ ਚੂਡਾਮਣਿਸ੍ਤਥਾ ।
ਜ੍ਵਾਲਾਮੁਖੀ ਨਖਜ੍ਵਾਲਾਮਭੇਦ੍ਯਾ ਸਰ੍ਵਸਂਧਿਸ਼ੁ ॥ 35 ॥

ਸ਼ੁਕ੍ਰਂ ਬ੍ਰਹ੍ਮਾਣਿ! ਮੇ ਰਕ੍ਸ਼ੇਚ੍ਛਾਯਾਂ ਛਤ੍ਰੇਸ਼੍ਵਰੀ ਤਥਾ ।
ਅਹਂਕਾਰਂ ਮਨੋ ਬੁਦ੍ਧਿਂ ਰਕ੍ਸ਼ੇਨ੍ਮੇ ਧਰ੍ਮਧਾਰਿਣੀ ॥ 36 ॥

ਪ੍ਰਾਣਾਪਾਨੌ ਤਥਾ ਵ੍ਯਾਨਮੁਦਾਨਂ ਚ ਸਮਾਨਕਮ੍ ।
ਵਜ੍ਰਹਸ੍ਤਾ ਚ ਮੇ ਰਕ੍ਸ਼ੇਤ੍ਪ੍ਰਾਣਂ ਕਲ੍ਯਾਣਸ਼ੋਭਨਾ ॥ 37 ॥

ਰਸੇ ਰੂਪੇ ਚ ਗਂਧੇ ਚ ਸ਼ਬ੍ਦੇ ਸ੍ਪਰ੍ਸ਼ੇ ਚ ਯੋਗਿਨੀ ।
ਸਤ੍ਤ੍ਵਂ ਰਜਸ੍ਤਮਸ਼੍ਚੈਵ ਰਕ੍ਸ਼ੇਨ੍ਨਾਰਾਯਣੀ ਸਦਾ ॥ 38 ॥

ਆਯੂ ਰਕ੍ਸ਼ਤੁ ਵਾਰਾਹੀ ਧਰ੍ਮਂ ਰਕ੍ਸ਼ਤੁ ਵੈਸ਼੍ਣਵੀ ।
ਯਸ਼ਃ ਕੀਰ੍ਤਿਂ ਚ ਲਕ੍ਸ਼੍ਮੀਂ ਚ ਧਨਂ ਵਿਦ੍ਯਾਂ ਚ ਚਕ੍ਰਿਣੀ ॥ 39 ॥

ਗੋਤ੍ਰਮਿਂਦ੍ਰਾਣਿ! ਮੇ ਰਕ੍ਸ਼ੇਤ੍ਪਸ਼ੂਨ੍ਮੇ ਰਕ੍ਸ਼ ਚਂਡਿਕੇ ।
ਪੁਤ੍ਰਾਨ੍ ਰਕ੍ਸ਼ੇਨ੍ਮਹਾਲਕ੍ਸ਼੍ਮੀਰ੍ਭਾਰ੍ਯਾਂ ਰਕ੍ਸ਼ਤੁ ਭੈਰਵੀ ॥ 40 ॥

ਪਂਥਾਨਂ ਸੁਪਥਾ ਰਕ੍ਸ਼ੇਨ੍ਮਾਰ੍ਗਂ ਕ੍ਸ਼ੇਮਕਰੀ ਤਥਾ ।
ਰਾਜਦ੍ਵਾਰੇ ਮਹਾਲਕ੍ਸ਼੍ਮੀਰ੍ਵਿਜਯਾ ਸਰ੍ਵਤਃ ਸ੍ਥਿਤਾ ॥ 41 ॥

ਰਕ੍ਸ਼ਾਹੀਨਂ ਤੁ ਯਤ੍-ਸ੍ਥਾਨਂ ਵਰ੍ਜਿਤਂ ਕਵਚੇਨ ਤੁ ।
ਤਤ੍ਸਰ੍ਵਂ ਰਕ੍ਸ਼ ਮੇ ਦੇਵਿ! ਜਯਂਤੀ ਪਾਪਨਾਸ਼ਿਨੀ ॥ 42 ॥

ਪਦਮੇਕਂ ਨ ਗਚ੍ਛੇਤ੍ਤੁ ਯਦੀਚ੍ਛੇਚ੍ਛੁਭਮਾਤ੍ਮਨਃ ।
ਕਵਚੇਨਾਵ੍ਰੁਰੁਇਤੋ ਨਿਤ੍ਯਂ ਯਤ੍ਰ ਯਤ੍ਰੈਵ ਗਚ੍ਛਤਿ ॥ 43 ॥

ਤਤ੍ਰ ਤਤ੍ਰਾਰ੍ਥਲਾਭਸ਼੍ਚ ਵਿਜਯਃ ਸਾਰ੍ਵਕਾਮਿਕਃ ।
ਯਂ ਯਂ ਚਿਂਤਯਤੇ ਕਾਮਂ ਤਂ ਤਂ ਪ੍ਰਾਪ੍ਨੋਤਿ ਨਿਸ਼੍ਚਿਤਮ੍ ॥ 44 ॥

ਪਰਮੈਸ਼੍ਵਰ੍ਯਮਤੁਲਂ ਪ੍ਰਾਪ੍ਸ੍ਯਤੇ ਭੂਤਲੇ ਪੁਮਾਨ੍ ।
ਨਿਰ੍ਭਯੋ ਜਾਯਤੇ ਮਰ੍ਤ੍ਯਃ ਸਂਗ੍ਰਾਮੇਸ਼੍ਵਪਰਾਜਿਤਃ ॥ 45 ॥

ਤ੍ਰੈਲੋਕ੍ਯੇ ਤੁ ਭਵੇਤ੍ਪੂਜ੍ਯਃ ਕਵਚੇਨਾਵ੍ਰੁਰੁਇਤਃ ਪੁਮਾਨ੍ ।
ਇਦਂ ਤੁ ਦੇਵ੍ਯਾਃ ਕਵਚਂ ਦੇਵਾਨਾਮਪਿ ਦੁਰ੍ਲਭਮ੍ ॥ 46 ॥

ਯਃ ਪਠੇਤ੍ਪ੍ਰਯਤੋ ਨਿਤ੍ਯਂ ਤ੍ਰਿਸਂਧ੍ਯਂ ਸ਼੍ਰਦ੍ਧਯਾਨ੍ਵਿਤਃ ।
ਦੈਵੀਕਲਾ ਭਵੇਤ੍ਤਸ੍ਯ ਤ੍ਰੈਲੋਕ੍ਯੇਸ਼੍ਵਪਰਾਜਿਤਃ । 47 ॥

ਜੀਵੇਦ੍ਵਰ੍ਸ਼ਸ਼ਤਂ ਸਾਗ੍ਰਮਪਮ੍ਰੁਰੁਇਤ੍ਯੁਵਿਵਰ੍ਜਿਤਃ ।
ਨਸ਼੍ਯਂਤਿ ਵ੍ਯਾਧਯਃ ਸਰ੍ਵੇ ਲੂਤਾਵਿਸ੍ਫੋਟਕਾਦਯਃ ॥ 48 ॥

ਸ੍ਥਾਵਰਂ ਜਂਗਮਂ ਚੈਵ ਕ੍ਰੁਰੁਇਤ੍ਰਿਮਂ ਚੈਵ ਯਦ੍ਵਿਸ਼ਮ੍ ।
ਅਭਿਚਾਰਾਣਿ ਸਰ੍ਵਾਣਿ ਮਂਤ੍ਰਯਂਤ੍ਰਾਣਿ ਭੂਤਲੇ ॥ 49 ॥

ਭੂਚਰਾਃ ਖੇਚਰਾਸ਼੍ਚੈਵ ਜੁਲਜਾਸ਼੍ਚੋਪਦੇਸ਼ਿਕਾਃ ।
ਸਹਜਾ ਕੁਲਜਾ ਮਾਲਾ ਡਾਕਿਨੀ ਸ਼ਾਕਿਨੀ ਤਥਾ ॥ 50 ॥

ਅਂਤਰਿਕ੍ਸ਼ਚਰਾ ਘੋਰਾ ਡਾਕਿਨ੍ਯਸ਼੍ਚ ਮਹਾਬਲਾਃ ।
ਗ੍ਰਹਭੂਤਪਿਸ਼ਾਚਾਸ਼੍ਚ ਯਕ੍ਸ਼ਗਂਧਰ੍ਵਰਾਕ੍ਸ਼ਸਾਃ ॥ 51 ॥

ਬ੍ਰਹ੍ਮਰਾਕ੍ਸ਼ਸਵੇਤਾਲਾਃ ਕੂਸ਼੍ਮਾਂਡਾ ਭੈਰਵਾਦਯਃ ।
ਨਸ਼੍ਯਂਤਿ ਦਰ੍ਸ਼ਨਾਤ੍ਤਸ੍ਯ ਕਵਚੇ ਹ੍ਰੁਰੁਇਦਿ ਸਂਸ੍ਥਿਤੇ ॥ 52 ॥

ਮਾਨੋਨ੍ਨਤਿਰ੍ਭਵੇਦ੍ਰਾਜ੍ਞਸ੍ਤੇਜੋਵ੍ਰੁਰੁਇਦ੍ਧਿਕਰਂ ਪਰਂ ।
ਯਸ਼ਸਾ ਵਰ੍ਧਤੇ ਸੋ਽ਪਿ ਕੀਰ੍ਤਿਮਂਡਿਤਭੂਤਲੇ ॥ 53 ॥

ਜਪੇਤ੍ਸਪ੍ਤਸ਼ਤੀਂ ਚਂਡੀਂ ਕ੍ਰੁਰੁਇਤ੍ਵਾ ਤੁ ਕਵਚਂ ਪੁਰਾ ।
ਯਾਵਦ੍ਭੂਮਂਡਲਂ ਧਤ੍ਤੇ ਸਸ਼ੈਲਵਨਕਾਨਨਮ੍ ॥ 54 ॥

ਤਾਵਤ੍ਤਿਸ਼੍ਠਤਿ ਮੇਦਿਨ੍ਯਾਂ ਸਂਤਤਿਃ ਪੁਤ੍ਰਪੌਤ੍ਰਿਕੀ ।
ਦੇਹਾਂਤੇ ਪਰਮਂ ਸ੍ਥਾਨਂ ਯਤ੍ਸੁਰੈਰਪਿ ਦੁਰ੍ਲਭਮ੍ ॥ 55 ॥

ਪ੍ਰਾਪ੍ਨੋਤਿ ਪੁਰੁਸ਼ੋ ਨਿਤ੍ਯਂ ਮਹਾਮਾਯਾਪ੍ਰਸਾਦਤਃ ।
ਲਭਤੇ ਪਰਮਂ ਰੂਪਂ ਸ਼ਿਵੇਨ ਸਹ ਮੋਦਤੇ ॥ 56 ॥

॥ ਇਤਿ ਵਾਰਾਹਪੁਰਾਣੇ ਹਰਿਹਰਬ੍ਰਹ੍ਮ ਵਿਰਚਿਤਂ ਦੇਵ੍ਯਾਃ ਕਵਚਂ ਸਂਪੂਰ੍ਣਮ੍ ॥


देवी महात्म्यम् देवि कवचम्

ॐ नमश्चंडिकायै

न्यासः
अस्य श्री चंडी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छंदः ।
चामुंडा देवता । अंगन्यासोक्त मातरो बीजम् । नवावरणो मंत्रशक्तिः । दिग्बंध देवताः तत्वं । श्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः ॥

ॐ नमश्चंडिकायै

मार्कंडेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥

ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चंद्रघंटेति कूष्मांडेति चतुर्थकम् ॥ 3 ॥

पंचमं स्कंदमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥

न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरंति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥

प्रेतसंस्था तु चामुंडा वाराही महिषासना ।
ऐंद्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥

माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥

दृश्यंते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥

खेटकं तोमरं चैव परशुं पाशमेव च ।
कुंतायुधं त्रिशूलं च शारंगमायुधमुत्तमम् ॥ 14 ॥

दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयंत्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैंद्री आग्नेय्यामग्निदेवता ॥ 17 ॥

दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥

एवं दश दिशो रक्षेच्चामुंडा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघंटा च नासिके ॥ 22 ॥

शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ 23 ॥

नासिकायां सुगंधा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥

दंतान् रक्षतु कौमारी कंठदेशे तु चंडिका ।
घंटिकां चित्रघंटा च महामाया च तालुके ॥ 25 ॥

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥

नीलग्रीवा बहिः कंठे नलिकां नलकूबरी ।
स्कंधयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥

हस्तयोर्दंडिनी रक्षेदंबिका चांगुलीषु च ।
नखांछूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥

कट्यां भगवती रक्षेज्जानुनी विंध्यवासिनी ।
जंघे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अंत्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ 35 ॥

शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥

प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥

रसे रूपे च गंधे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥

गोत्रमिंद्राणि! मे रक्षेत्पशून्मे रक्ष चंडिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥

पंथानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥

रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयंती पापनाशिनी ॥ 42 ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ 45 ॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥

यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यंति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥

स्थावरं जंगमं चैव कृत्रिमं चैव यद्विषम् ।
अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥ 49 ॥

भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥

अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगंधर्वराक्षसाः ॥ 51 ॥

ब्रह्मराक्षसवेतालाः कूष्मांडा भैरवादयः ।
नश्यंति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परं ।
यशसा वर्धते सोऽपि कीर्तिमंडितभूतले ॥ 53 ॥

जपेत्सप्तशतीं चंडीं कृत्वा तु कवचं पुरा ।
यावद्भूमंडलं धत्ते सशैलवनकाननम् ॥ 54 ॥

तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ।
देहांते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥

॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं संपूर्णम् ॥

Comments

Popular posts from this blog

Sri Rama Bhujanga Prayatha Stotram

Sri Rama Raksha Stotram

Shani Stuti - Namah Krishnaya Neelaya